________________
इत्येवमस्मिन् बत चित्ररूपे मिथ्याशा हक्क तिमिराहते (ति) । परोपकृत्यै सुधियोऽत्र चैतज्ज्योतिर्मयं तत्त्वमुदीरयन्ति ॥१॥
तथाहि-चित्रावयविनो नीरूपत्वं तावदनुभवबाधितम् , तत्र रूपवत्ताधियः सार्वजनीनत्वात् । न च संबन्धविशेषे. णावयवरूपमेव तत्र प्रतीयत इति वाच्यम् , अन्यत्राप्यवयवरूपस्यैवैकत्वपरिणामाख्यसंबन्धेनावयविगततया प्रतीतावस्मन्मतप्रवेशात् । न चान्यत्रावयवगतेभ्योऽनेकरूपेभ्य एकस्यावयविगतस्य विलक्षणस्यैव रूपस्यानुभवादयमदोष इति वाच्यम् , अत्रेव तत्रापि घटवृत्तित्वावच्छेदेनैकत्वस्य, तदवयववृत्तित्वापच्छेदेन च नानात्वस्याविरुद्धत्वात् । एतेन 'सर्वैश्व नीलरारब्धेऽवयविनि नीलाद् नीलं स्वखावच्छेदेनोत्पद्यमान रूपमविरोधाद् व्यापकमेवोत्पद्यते, सजातीय-विजातीयेषु नानापदार्थेषु जायमानं समूहालम्बनमिवैकं ज्ञानम्' इति दीधितिकृदुक्तं निरस्तम् , समूहालम्बनेऽप्येकत्वस्य संख्यारूपस्य त्वयानभ्युपगमात् , आश्रयगतैकत्वस्य चातिप्रसङ्गात् , 'एकम्' 'एकम्' इत्यनुगतधिया सकलैकवृत्त्यतिरिक्तैकत्वस्वीकारे च द्वित्वादेरपि तादृशस्य स्वीकर्तुमुचितत्वेनैकत्व-द्वित्वाद्यविरोधात् , एवमेव घटज्ञान-पटज्ञानयोरक्यमित्यत्र द्विवचनस्य सुघटत्वात् , भिन्नभिन्नावच्छेदेन तत्रैकत्व-द्वित्वोभयसमावेशसंभवात् , प्रयोगस्य च विवक्षाधीनत्वात् ; उवाच च वाचकमुख्यः- “अर्पितानर्पितसिद्धः" इति । एकत्वद्वित्वयोवृत्ताववच्छेदको च तद्व्यक्ति-तदंशौ । तथाप्येतद्व्यक्त्यवच्छेदेन 'इदमेकं ज्ञानम्' इत्येकत्वभानवद् घटे 'इदमेकं रूपम्' इत्युपपत्तावपि नानावयवरूपष्वपि 'इदमेकं रूपम्' इति धीः स्यादिति चेत् । न, अभेदविवक्षायामिष्टत्वात् , भेदविवक्षायां | च 'इदमुभयं नैकम्' इत्यत्रोभयत्वेनापृथक्कृतैतव्यक्तः पृथक्कृतैकत्वानवच्छेदकत्ववत् पृथक्कृतैतव्यक्तरपृथक्कृतैकत्वानवच्छेदक
१ सस्वार्थसूत्रे ५।३।।
Jain Educat
i on
For Private & Personel Use Only
www.jainelibrary.org
F