SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः ॥२०७|| 'नील-पीत-रक्ताद्यारब्धघटादौ नील-पीत-रक्तादिभ्य एव नील-पीतोभय-पीतरक्तोभयजतत्रितयजादिचित्राणामुत्पत्तिः, सर्वेषां |सटीकः। सामग्रीसत्वात् । न चैकमेव तदस्त्विति वाच्यम्, तत्तदवयवद्वयमात्रावच्छेदेनेन्द्रियसंनिकर्षे विलक्षणचित्रोपलम्भात् , जाते स्तबकः। रव्याप्यवृत्तित्वे पुनरस्त्वेकमेव तत् , किश्चिदवच्छेदेन तत्र नीलत्व-पीतत्व-रक्तत्वविलक्षणचित्रत्वादिसंभवात्' इत्याहुः । परे तु- 'तत्र व्याप्यवृत्तीन्येव नील-पीतादीन्युत्पद्यन्ते, नीलादिकं प्रति नीलेतरादिप्रतिबन्धकत्व-नीलाभावादिका. रणत्वकल्पनापेक्षया व्याप्यवृत्तिनीलपीतादिकल्पनाया एव न्याय्यत्वात्' इत्याहुः । तत्रेत्यन्ये- नीलकपालावच्छेदेन चक्षुःसंनिकर्षे पीतादेरुपलम्भापत्तेः, नीलाद्यवयवावच्छेदेन संनिकर्षस्य नीलादिग्राहकत्वकल्पने च गौरवान् । यतु- 'एतत्कपा| लावच्छिन्नसंयोगादिप्रत्यक्षानुरोधेनैतत्कपालानवच्छिन्नवृत्तिकत्वे सति यत्तन्नीलान्यत्तद्भिन्नं यदेतद् घटसमवेतं तस्यैतत्कपालविषयकसाक्षात्कारं प्रत्येतत्कपालावच्छेदेनैतद्धटचक्षुःसंनिकर्षस्य हेतुत्वाद् न पीतावयवावच्छेदेन संनिकर्षे नीलादिचाक्षु. षापत्तिः' इति । तन्न, तथाहेतुतायामतिगौरवात् , तत्कपालावच्छिन्नप्रत्यक्ष एव तत्कपालावच्छिन्नसंनिकर्षस्य हेतुत्वात् । केचित्तु- 'नानारूपवदवयवारब्धो नीरूप एव घटः, स्वाश्रयसमवेतवृत्तित्वसंबन्धेनैव रूपस्य द्रव्यतत्समवेतचाक्षुषसाधारण्येन हेतुत्वादेतच्चाक्षुषात्' इत्याहुः । तन्नेत्यपरे-चित्रकपालिकास्थले तदसंभवात् । अन्ये तु- 'उद्भूतैकत्वस्यायोग्यव्यावृत्तधर्मविशेषस्यैव वा द्रव्यचाक्षुषहेतुत्वेन रूपं विनापि तादृशघटचाक्षुषत्वोपपत्तिः, घटाकाशसंयोगादीनां गुरुत्वादिवदयोग्यत्वादेव संयोगादिचाक्षुषे स्वाश्रयसमवेतत्वसंबन्धेन रूपाभावस्य प्रतिबन्धकत्वाकल्पनात् , तवृत्तिसंयोगादिप्रत्यक्षानुपपत्ते| रभावात्' इत्याहुः। Hy२०७॥ SE Jain Education int ona For Private & Personel Use Only Niwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy