SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । ॥ २०६॥ Jain Education Intern वच्छेदकतयोत्पत्तुमर्हतीत्यवयविनि रूपस्य प्रतिबन्धकस्य सखेन रूपसामग्न्यभावादेव नावयवेऽवच्छेदकतया तदा रूपोत्पश्यापत्तिरिति वाच्यम्; एवं ह्यवयविनिष्ठरूपाभावोऽवच्छेदकतासंबन्धेन रूपं प्रति हेतुर्वाच्यः तथा च नानारूपवत्कपालारव्धघटस्य नीलरूपादेर्नीलकपालिकावच्छेदेनानुत्पत्तिप्रसङ्गात् तदवयविनि कपाले रूपसत्वात् । अपिच, नीलपीतवत्यग्निसंयोगात्, कपालनीलनाशात् तदवच्छेदेन रक्तं न स्यात्, समवायेन रूपं प्रति तेन रूपस्य प्रतिबन्धकत्वात् तदवच्छिन्नरूपे तदवच्छिन्नरूपस्य प्रतिबन्धकत्वकल्पने चातिगौरवम् । अथावच्छिन्ननीलादौ नीलाभावादिषट्कमवयवगतमवयविगतं च हेतुः, रक्तterroधे रक्तनाशकपाकेन व्याप्यवृत्तिनीलोत्पत्तिदशायां चावयविनि न नीलाभाव:, इति न तत्रावच्छिन्ननलिोत्पत्तिः, नीलमात्रा पाकेन कचिद्रक्तरूपोत्पत्तौ च प्राक्तननीलनाशादेवावच्छिन्ननीलोत्पत्तिरिति चेत् । न, नील-पीत - श्वेताद्यारब्धे श्वेताद्यवच्छेदेन नीलजनकपाके सति प्राक्तननीलनाशेन तत्तदवच्छिन्ननानानीलकल्पनापेक्षयैकचित्रकल्पनाया एव लघुत्वात् । अथ व्याप्यवृत्तिरूपस्याप्यवच्छेदक स्वीकारादवच्छेदकतया नीलादिकं प्रत्येव समवायेन नीलादेर्हेतुत्वम् । न चैवं घटेsपि तया नीलाद्यापत्तिः, अवयवनीलत्वेन द्रव्यविशिष्टनीलत्वेन वा तद्धेतुत्वात् । न च नीलमात्र - पीतमात्रकपालिकायारधनीलपीत पाले तदापत्तिः, नीलकपालिकावच्छिन्नतदवच्छेदेन तदुत्पत्तेरिष्टत्वात् । अस्तु वा तया नीलादौ नीलेतररूपादेरेव विरोधित्वमिति चेत् । न नीलादौ नीलेतररूपादिप्रतिबन्धकतयैवोपपत्तौ तत्र नीलादिहेतुतायां मानाभावेन नानारूपवदवयवारब्धे चित्ररूपस्यैव प्रामाणिकत्वात् व्याप्यवृत्तेरवच्छेदका योगात्, नीलेतरादौ नीलादेः प्रतिबन्धकत्वेविनिगमाच्च । यदि च स्वाश्रयसंबन्धेन नीलं प्रति स्वव्यापकसमवायेन नीलरूपं हेतुरुपेयते, नील-पीताधारब्धस्थले च For Private & Personal Use Only सटीकः । स्तवकः । ॥ ६ ॥ ॥ २०६॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy