________________
Jain Education Inter
नीलेतरत्वेन, गौरवात्, इत्येव किं न स्यात् १ इति वाच्यम् प्रतिबन्धकतावच्छेदकगौरव स्यादोषत्वात् । अस्तु वाऽवच्छेदकतया नीलादौ समवायेन नीलादीनामेव हेतुत्वम् । न च नानारूपवत्कपालारव्यघटनीलस्य तत्कपालावच्छेदेनोत्पत्तिप्रसङ्गः, केवलनीलत्वादिनैव तद्धेतुत्वात् । समवायेन नीलादौ च स्वसमवायिसमवेतत्व संबन्धेन नीलादीनां हेतुत्वम् । व्याप्यवृत्तिनीलस्थलेऽव्याप्यवृत्तित्ववारणाय चावच्छेदकतया नीलादौ स्वसमवायिसमवेतद्रव्यसमवायित्वसंबन्धेन नीलेतररूपादीनां हेतुत्वम्, इत्यष्टादश कार्यकारणभावाः । चित्ररूपेऽप्येतावन्त एव, चित्ररूपे नीलेतररूपादिषट्कस्य, नीलादौ नीलादिषट्कस्य हेतुत्वात् नीलादौ नीलेतरादिषट्कस्य प्रतिबन्धकत्वाच्चेति नाधिक्यम् । वस्तुतोऽवच्छेदकतया नीलादाक्तसंबन्धेन नीलेतररूपविशिष्टनीलत्वादिनैव हेतुत्वम् । न च नीलेतरत्वाद्यवच्छिन्नं प्रति नीलविशिष्टनीलेतरत्वादिना हेतुत्वे विनिगमकाभावः, नीलत्वापेक्षया नीलेतरत्वस्य गुरुत्वात् । एतेन 'उक्तसंबन्धेन नीलेतरादेनलादिकं प्रति हेतुत्वम्, नीलादीनां नीलेतरादिकं प्रति वा इति विनिगमनाविरहाद् द्वादशकार्यकारणभावापत्तिः' इत्यपास्तम् । इत्थं चातिनिष्कर्षादस्माकं द्वादशैत्र कार्यकार भावाः, तव त्वष्टादशेति चेत् । न ममापि नीलादौ नीलेतरादिप्रतिबन्धकत्वेनैव शुक्लावयवमात्रारब्धे नीलाद्यनुत्पत्तिनिर्वाहात्, नीलादौ नीलादिहेतुत्वा कल्पनात् कार्यकारणभावसंख्यासाम्यात्, अव्याप्यवृत्तिनानारूपतत्प्रागभावध्वंसादिकल्पनागौरवस्य च तवाधिकत्वात् ।
किञ्च, अव्याप्यवृत्तिरूपपक्षेऽवच्छेदकतासंबन्धेन रूप उत्पन्ने पुनस्तेनैव संबन्धेनावयवे रूपोत्पत्तिवारणायावच्छेदकतासंबन्धेन रूपं प्रत्यवच्छेदकतासंबन्धेन रूपं प्रतिबन्धकं कल्पनीयमिति गौरवम् । न चावयविनि समवायेनोत्पद्यमानमेवावयवे
For Private & Personal Use Only
w.jainelibrary.org