________________
३५
Jain Education Inte
इतिवत् समूहकत्वविषयत्वात् । सविषयावृत्तिव्याप्यवृत्तिवृत्तिजातेरव्याप्यवृत्तिवृत्तित्वविरोधस्त्वमामाणिक एव । अत एव " लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः खुर- विषाणाभ्यां स नीलो वृष उच्यते ।। १ ।। "
इत्यादिकमुपपद्यते । तत्र चित्रैकरूपकल्पने तु गौरवम्; तथाहि - चित्रत्वावच्छिन्नं प्रति न नीलत्वादिना हेतुत्वम्, व्यभिचारात् नापि रूपत्वेन, नीलमात्रारब्धेऽपि तदापत्तेः । अथ नीलेतर पीतेतररूपादेरपि तत्र हेतुत्वाद् न तदापत्तिः, Satarara नीलम्, अपरत्र च पीतजनकाग्निसंयोगः, तत्रावयवे पीतरूपोत्पच्यनन्तरमेवावयविनि चित्रोत्पत्ति स्वीकाराद् न व्यभिचारः । न च नीलाभावादिषट्कस्यैव समवायेन विजातीयाचित्रं प्रति स्वाश्रयसमवेतत्वेन हेतुत्वमस्त्विति वाच्यम्, नील- पीतोभयकपालारब्धे घंटे पाकनाशितावयवपीतस्वचित्रेऽवयवे व्याप्यवृत्तिनीलोत्पत्तिकाले चित्रीत्यस्यापत्तेः । न च Share भावेन नीलाभावादीनां तद्धेतुत्वाद् नायं दोष इति वाच्यम्, नील- पीत-श्वेतत्रितयकपालारब्धे पाकेन पीत- श्वेतयोः क्रमेण नाशे श्वेत नाशकालेऽपि तदापत्तेः । नील-नीलजनकतेजःसंयोगान्यतरत्वावच्छिन्नाभावत्वादिना हेतुत्वे तु गौरवम् ; संयोगस्याव्याप्यवृत्तित्वेन प्रतियोगिव्यधिकरणत्वनिवेशे च सुतराम् । न चानवच्छिन्नविशेषणतया प्रतियोगितावच्छेदकाविशेषितोक्ताभावहेतुत्वसंभवः, प्रतियोगिकोटावुदासीनप्रवेशा-प्रवेशाभ्यामविनिगमादिति चेत् । न, पाकमात्रादपि चित्रोत्पत्तेः । अथ रूपजन्यतावच्छेदकं विजातीयचित्रत्वम्, अग्निसंयोगजन्यतावच्छेदकं चापरम्, अग्निसंयोगजचित्रं प्रत्यवच्छेदकत्व संबन्धावच्छिन्नप्रतियोगिताका नीलजनकाग्निसंयोगादेरभावा उक्तप्रत्यासच्या हेतवः, रूपजनक विजातीयाग्निसंयोगोऽपि इति न 1 अतः 'विनिगमात्' इति पर्यन्तोऽभ्यन्तरीकृताक्षेपपरिहारः पूर्वपक्ष: । २] इतः 'स्वीकारात्' इत्यन्तो विहितपूर्वपक्षेोत्तरपक्षः पूर्वपक्ष: ।
For Private & Personal Use Only
ww.jainelibrary.org