SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । ॥२०४॥ च तत्र तदभावावच्छेदकत्वालम्बनः प्रत्ययस्तत्र तदवच्छेदकत्वाभावावलम्बन तयैवान्यथासिद्धः क्रियते, तदा संयोगाभावोऽप्य व्याप्यवृत्तिर्न स्यात्, 'मूले वृक्षे न कपिसंयोगः' इत्यस्यापि मूले वृक्षनिष्ठ कपिसंयोगावच्छेदकत्वाभावविषयतयैवोपपतेः । अथ 'कपिसंयोगाभावो न वृक्षवृत्तिः' इति बाधकाभावाद् मूलस्य वृक्षवृत्तिकपिसंयोगाभावावच्छेदकत्वम्, 'नष्टत्वाभावो न घटवृत्तिः' इति बाधकसत्वाच्च न घटवृत्तिनष्टत्वाभावावच्छेदकत्वं मृद्रूपस्येति चेत् । न तत्र तद्वृत्तित्वाभावस्याप्यव्याप्यवृत्तित्वेन तद्धियस्तत्र तद्वृत्तिताधियोऽप्रतिबन्धकत्वात् । यत्तु - 'वृत्तित्वस्य नाव्याप्यवृत्तित्वम्, 'अग्रे वृक्षे न कपिसंयोगः' इत्यत्राग्रावच्छिन्नकपिसंयोगाभावे वृक्षवृत्तित्वस्य, 'गुणान्यत्वविशिष्टा सत्ता न गुणवृत्तिः' इत्यत्र गुणान्यत्वविशिसत्ताभावे गुणवृत्तित्वस्य, 'घट-पटत्वोभयं न घटवृत्ति' इत्यत्र च घटत्व-पटत्वोभयाभावे घटवृत्तित्वस्य विषयत्वात्' इति तत्तु 'मूले वृक्षे कपिसंयोगो न शाखायाम् ' ' द्रव्ये गुणान्यत्वविशिष्टसत्ता न गुणे' इत्यादिधियामेकविशेष्यकत्वाननुरोधाद् न शोभते । नन्वेवं 'वृक्षे पटे न कपिसंयोगः' इत्यपि स्यादिति चेत् । न, देशनिष्ठावच्छेदकत्वस्य पटेऽभावात्, इतरावच्छेदकत्वविवक्षायां चेष्टत्वादिति दिग् । गौरवादिकं च नित्यत्वा ऽनित्यत्वयोर्वास्तवेऽवच्छिन्नत्वे न दोषायेति । एवमनुभवसिद्धं नित्यानित्यैकरूपं वस्तु प्रतिक्षिपन् विशेषभीतो वैशेषिकश्चित्रपटे चित्रैकरूपमपि कथमभ्युपेयात् । इति संप्रदायः तदाहुः“चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् । योगो वैशेषिको वापि नानेकान्तं प्रतिक्षिपेत् ॥ १ ॥” इति । अत्र नव्या :- ' चित्रपटेऽव्याप्यवृत्तीन्येव नील पीतादीनि नानारूपाणि' 'एकं रूपम्' इति प्रतीतेः 'एको धान्यराशिः ' १ हेमचन्द्राचार्यविरचिते वीतरागस्तोत्रे ऽष्टमप्रकाशे श्र० ९। Jain Education International For Private & Personal Use Only सटीकः । स्तबकः । ॥ ६ ॥ ॥२०४॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy