________________
स्वस्मिन्नपि तथाधीव्यपदेशप्रवृत्तेः, तथा चान्तरकत्वात तादात्म्यनियत एव स उचितः । इति सिद्धं क्षणरूपतया जगत: पोयतया क्षणभङ्गुरत्वम् , तदुक्तं ग्रन्थकृतैव धर्मसंग्रहण्याम्- 'जं वत्तणादिरूवो कालो दव्वस्स चेव पज्जाओ" इति । "किमेयं भंते ! कालो त्ति पवुच्चइ ? । गोयमा ! जीवा चेव, अजीवा चेव" इति पारमर्षमप्येतदर्थानुपाति । यस्मिन्नेव क्षणे घटस्तस्मिभेव पट इति तु शब्दमात्रम् , इति न साधारणातिरिक्तक्षणसाधकम् ।
प्रतियन्ति च लोका अपि नित्यानित्यत्वं वस्तुनः- 'घटरूपेण मृद्रव्यं नष्ट, मृदूपेण न नष्टम्' इति 'घटरूपेण घटो नष्टः, न तु मद्रूपेण' इत्यादिः अत्र च 'दण्डत्वेन दण्डस्य घटहेतुत्वम् , न तु द्रव्यत्वेन' इत्यत्रेवावच्छिन्नत्वं तृतीयार्थः, स्वाश्रयन्यूनवृत्तरेवावच्छेदकत्वमित्यस्य च प्रकृतदृष्टान्त एव भङ्गः । अथाऽन्यथासिद्धिनिरूपकतानवच्छेदकनियतपूर्ववर्तितावच्छेदकरूपवत्वं हेतुत्वं नाव्याप्यवृत्ति, इति दण्ड इति तत्र दण्डवृत्तित्वम् , दण्डत्वेनेति च दण्डत्वाभिन्नत्वम्, न द्रव्यत्वेनेति च द्रव्यत्वाभेदाभावो भासत इति चेत् । न, विशिष्टरूपेऽविशिष्टरूपाभेदान्वयस्य निराकासत्वात् । अन्यथा 'दण्डत्वं घटहेतुत्वम्' इस्यस्यापि प्रसङ्गात् । तथाप्येकविशेष्यकत्वानुरोधाद् 'न द्रव्यत्वेन' इत्यत्र द्रव्यत्वावच्छिन्नत्वाभाव एवार्थः । न हि 'दण्डत्वेन दण्डो घटहेतुर्न द्रव्यत्वेन' इत्यत्र दण्डवृत्तिघटहेतुत्वं दण्डत्वावच्छिन्नं, दण्डवृत्तिस्तदभावश्च द्रव्यत्वावच्छिन्न इति भिन्नाश्रयो बोधोऽनुभूयते; किन्तु दण्डवृत्ति घटहेतुत्वं दण्डत्वावच्छिन्नं द्रव्यत्वानवच्छिन्नं चेत्येकाश्रय एवेति चेत् । सत्यम् , तात्पर्यभेदेनोभयथापि बोधदर्शनात 'मृद्रूपेण घटो (न) नष्टः' इत्यत्रापि कदाचिद् मृद्रूपानवच्छिन्ननष्टत्वबोधात् , नानापर्यायत्वाद् वस्तुनः। यदि
। यद् वर्तनादिरूपः कालो द्रव्यस्यैव पर्यायः । २ क एष भगवन् ! काल इति प्रोच्यते ? । गौतम ! जीवश्चैव, अजीवश्चैव ।
पर..
JanEducationister
For Private
Personel Use Only
'www.jainelibrary.org