________________
T
सटीकः। स्तबकः।
व तदर्थत्वादिति चेत् । न, आश्रयन्यूनवृत्तरेवावच्छेदकत्वेन घटवन घटेनित्यतायाः, द्रव्यत्वेन च नित्यताया असंभवात् । न समचयहि भवति शाखायां शाखावावच्छेदेन कपिसंयोगाभावः, वृक्षत्वावच्छेदेन च कपिसंयोग इति । किञ्च, एवं नित्यत्वादिज्ञान॥२०॥ स्यानित्यत्वादिधीपतिबन्धकतायामव्याप्यवृत्तित्वज्ञानाद्युत्तेजकत्वं वाच्यमिति गौरवमिति ।
अत्र ब्रूमः-प्रत्यभित्र वस्तुनो नित्यानित्यत्वे मानम् , पूर्वोत्तरतत्तदंतास्वभावभंदानुविद्धस्यैवोलतासामान्याख्याभेदस्य तया विषयीकरणात । न च तत्तेदंतोभयनिरूपितैकस्वभावमेव तत् , भिन्नकाले तदभावादेव च तदननुभव इति सांप्रतम् , 'इदानीं तत्तास्वभावमिदम्' इति व्यवहारमामाण्यप्रसङ्गात् । किञ्च, विशिष्टात्यन्ताभाववद् विशिष्टध्वंसोऽपि परेणाकामेनापि खीकर्तव्यः, 'शिखी विनष्टः' इति प्रतीतेरन्यथानुपपत्तेः । न च विशेष्य नाशसामग्यभावाद् विशिष्टनाशानुपपत्तिः, विशेषणाद्यत्यन्ताभावकृतविशिष्टात्यन्ताभाववद् विशेषणादिनाशकृतविशिष्टनाशसंभवात् । विशेषणनाशादेव परम्परासंबन्धन तत्पतीत्युपपच्या विशिष्टनाशासिद्धौ च स्वपर्याप्त्यधिकरणसंबन्धन द्वित्वाभावादिनैव द्वौ न स्त:' इत्यादिप्रतीत्युपपत्ती द्वित्वावरिछनाभावादेरप्युच्छेदप्रसङ्गः । एवं च क्षणविशिष्टध्वंसादस्थैर्यसंवलितं स्थैर्य सिद्धम् , विशिष्टातिरिक्तस्ववादिनः सार्वभौमस्य मते च सुतराम् । न च तन्मते विशिष्ट सत्तानिश्चयेऽपि सत्तासंदेहापत्तिः, परस्यापि विशिष्टसत्तानिश्चयस्य सत्ता
निश्चयत्वशून्यतया विशिष्टसत्तानिश्चयत्वेन पृथप्रतिबन्धकतावश्यकत्वात् । न चानन्तविशिष्ट पदार्थकल्पनापत्तिः, परस्यापि FO विशिष्टनिरूपिताधिकरणतानन्त्यकल्पनस्यावश्यकत्वात् । विना च विशिष्टातिरेक 'शिखरविशिष्टे पर्वते न वहिधीः' इति धीन
सुघटा । वस्तुतः क्षणानामिदानीमिति धीव्यपदेशनियामकः संबन्धविशेषः क्षणेषु क्षणपरिणतेषु च द्वेधा परेण वक्तव्यः,
॥२०॥
tml
Jan Education inte
For Private
Personel Use Only
www.jainelibrary.org