________________
SHERE
भावसिद्धेः । एवं च घटस्य घटत्वावच्छिन्नध्वंसप्रतियोगित्वेऽपि द्रव्यत्वावच्छिन्नध्वंसाप्रतियोगित्वमुपपत्तिमत् , तदुक्तम्
तद्भावाव्ययं नित्यम्" इति इति चेत् । न, तद्भावेन व्ययस्यापसिद्धौ तदभावस्य वक्तुमशक्यत्वात् , असतोऽनिषेधात्। स्वीकृतं चैतदन्यैरपि- "अंसओ नत्थि निसेहो" इत्यादिना ।
किञ्च, 'घटो नास्ति' इति प्रतीत्याऽत्यन्ताभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वेऽपि ध्वंसस्य न तथात्वम् , 'कपाले घटध्वंसः' इत्यत्र प्रतियोगितामात्रेणैव घटस्य ध्वंसेऽन्वयात् : 'अन्तरा श्यामे घटे रक्तं नास्ति' इति प्रतीतौ च सामयिकरक्तात्यन्ताभावस्यैव विषयत्वात; अन्यथा रक्ततादशायामपि तथाप्रत्ययापत्तेः । न च ध्वंस-पागभावयोरव्याप्यवृत्तिरक्तत्वावच्छिन्नप्रतियोगिताकत्वकल्पनाद् रक्ततादशायां धंसादेस्तदसत्त्वाद् न तथाप्रत्यय इति वाच्यम् ; अनन्तध्वंसपागभावेषु तादृशप्रतियोगिताकत्व-तदव्याप्यवृत्तित्वयोः 'रक्तं नास्ति' इत्यादिप्रतीतावनन्तध्वंसादिविषयकत्वस्य च कल्प| नामपेक्ष्यान्यत्र क्लुप्ततादृशप्रतियोगिकात्यन्ताभावस्यैवान्तरा श्यामादौ सामयिकसंवन्धस्य युक्तत्वात , तत्कारणबाधेन | भाविरक्तादिध्वंसाद्यसंभवाच्च । इत्थं च तद्भावाव्ययं नित्यम्" इत्यस्य 'ध्वंसप्रतियोगितानवच्छेदकरूपवद् नित्यम्' इत्यर्थः, ध्वंसप्रतियोगितावच्छेदकरूपवञ्चानित्यम् , इति नोभयासमावेशः, न चापसिद्धिः इत्यपि न सुष्टु समाधानम् । अथ वृक्षे शाखा-मूलाद्यवच्छेदेन कपिसंयोग-तदभाववदेकत्रापि द्रव्यतया पर्यायतया च नित्या-नित्यत्वमुपपत्स्यते, गुञ्जाफलादी श्यामता-रक्ततयोविभिन्नदेशावच्छेदरूपायाः खण्डशो व्याप्तलक्षण्येनैवान्योन्यव्याप्तिव्यवस्थितेविभिन्न देशानवच्छिनापृथग्भावस्य
। तत्वार्थसूत्रे ५.३ २ विशेष्यावश्यकभाष्ये प्रथमगणधरवादे गाथा २६ ।
Jain Education Internal
For Private & Personel Use Only
arteww.jainelibrary.org