________________
शाखवार्तासमुच्चयः। ॥२०॥
सटीकः। स्तबका।
प्रतीतिसचिवात्- अनुभवसधीचीनात् , सम्यग्- न्यायात् , नित्येतरद् गम्यते, नित्यं च तदितरचंति कर्मधारयः, इतरतअनित्यम् ।
. अत्र वैशेषिकादयः-प्रत्यभिज्ञया तत्तेदंताविशिष्टयोरभेदलक्षणे स्थैर्य सिद्धेऽपि कथमेकस्य नित्यानित्यरूपस्य वस्तुनः सिद्धिः, घटप्रतियोगिकत्वेन ध्वंसानुभवकाले समानसंविसंवेद्यतया घटे ध्वंसप्रतियोगित्वलक्षणानित्यत्वानुभवेऽपि नित्यत्वाननुभवात् , ध्वंसप्रतियोगित्व-तदप्रतियोगित्वलक्षणयोर्नित्यत्वा-ऽनित्यत्वयोर्विरोधाच्च ? । अथ प्रतियोगिसत्वमात्रेण नाभावविरोधः, किन्तु प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिसत्त्वेन, अत एवैकघटवत्यपि द्वित्वावच्छिन्नतदभावः। न च 'घट-पटौ न स्तः' इति धीरेकवत्यन्याभावावगाहिनी, तदितरत्रैव चोभयावगाहिनी। न चैकैकाभावधियो 'द्वौ न स्तः' इति धियोऽबैलक्षण्यम् , शब्दादिना 'द्वौ न स्तः' इति निश्चयेऽप्येकैकाभावसंशयापत्तिः, विषयानुगमं विनाऽनुगताकारप्रत्ययायोगश्च । द्वित्वाधिकरणप्रतियोगित्वमात्रावगाहित्वे च तादृशद्वित्वाधिकरणव्यक्तिविशेषविरहिणि तथाविधोभयशालिनि 'ताहशौ द्वौ न स्तः' इति प्रत्ययापत्तिः, सामानाधिकरण्याद्यभावेऽपि प्रतीतेरनुगताकारत्वाच्च न तस्या द्वित्वविशेष्यतावच्छेदकावच्छिन्नत्वसंसर्गेण द्वित्वसमानाधिकरणविशिष्टाभावावगाहित्वम् , घटत्व-पटत्वाचन्यतरावच्छिन्नप्रतियोगिताकाभावविषयत्वं वा, द्वित्वाधिकरणयोरेव प्रतियोगित्वोल्लेखात् सपर्याप्त्यधिकरणसंबन्धेन द्वित्वाभावविषयत्वमपि न युक्तमिति वाच्यम् , द्वित्वावच्छिन्नमतियोगिताकत्वेन घटादिमति पटत्वावच्छिन्नप्रतियोगिताकाभावादिविषयतया, तत्तद्धटादिमति च तत्तटान्यघटत्वावच्छिन्नाभावादिविषयतयोपपत्तेरिति वाच्यम् । अनन्ताभावे द्वित्वावच्छिन्नप्रतियोगिताकत्वकल्पने गौरवात, एका
Jan Education
a
l
For Private Personal use only
www.jainelibrary.org