SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ शाखवार्तासमुच्चयः। ॥२०॥ सटीकः। स्तबका। प्रतीतिसचिवात्- अनुभवसधीचीनात् , सम्यग्- न्यायात् , नित्येतरद् गम्यते, नित्यं च तदितरचंति कर्मधारयः, इतरतअनित्यम् । . अत्र वैशेषिकादयः-प्रत्यभिज्ञया तत्तेदंताविशिष्टयोरभेदलक्षणे स्थैर्य सिद्धेऽपि कथमेकस्य नित्यानित्यरूपस्य वस्तुनः सिद्धिः, घटप्रतियोगिकत्वेन ध्वंसानुभवकाले समानसंविसंवेद्यतया घटे ध्वंसप्रतियोगित्वलक्षणानित्यत्वानुभवेऽपि नित्यत्वाननुभवात् , ध्वंसप्रतियोगित्व-तदप्रतियोगित्वलक्षणयोर्नित्यत्वा-ऽनित्यत्वयोर्विरोधाच्च ? । अथ प्रतियोगिसत्वमात्रेण नाभावविरोधः, किन्तु प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिसत्त्वेन, अत एवैकघटवत्यपि द्वित्वावच्छिन्नतदभावः। न च 'घट-पटौ न स्तः' इति धीरेकवत्यन्याभावावगाहिनी, तदितरत्रैव चोभयावगाहिनी। न चैकैकाभावधियो 'द्वौ न स्तः' इति धियोऽबैलक्षण्यम् , शब्दादिना 'द्वौ न स्तः' इति निश्चयेऽप्येकैकाभावसंशयापत्तिः, विषयानुगमं विनाऽनुगताकारप्रत्ययायोगश्च । द्वित्वाधिकरणप्रतियोगित्वमात्रावगाहित्वे च तादृशद्वित्वाधिकरणव्यक्तिविशेषविरहिणि तथाविधोभयशालिनि 'ताहशौ द्वौ न स्तः' इति प्रत्ययापत्तिः, सामानाधिकरण्याद्यभावेऽपि प्रतीतेरनुगताकारत्वाच्च न तस्या द्वित्वविशेष्यतावच्छेदकावच्छिन्नत्वसंसर्गेण द्वित्वसमानाधिकरणविशिष्टाभावावगाहित्वम् , घटत्व-पटत्वाचन्यतरावच्छिन्नप्रतियोगिताकाभावविषयत्वं वा, द्वित्वाधिकरणयोरेव प्रतियोगित्वोल्लेखात् सपर्याप्त्यधिकरणसंबन्धेन द्वित्वाभावविषयत्वमपि न युक्तमिति वाच्यम् , द्वित्वावच्छिन्नमतियोगिताकत्वेन घटादिमति पटत्वावच्छिन्नप्रतियोगिताकाभावादिविषयतया, तत्तद्धटादिमति च तत्तटान्यघटत्वावच्छिन्नाभावादिविषयतयोपपत्तेरिति वाच्यम् । अनन्ताभावे द्वित्वावच्छिन्नप्रतियोगिताकत्वकल्पने गौरवात, एका Jan Education a l For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy