SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Bre र पर व्यय स्थित्यविनाभूतत्वात् । 'दध्न उत्पाद आद्यक्षणसंबन्धरूपो भाव इति कथं स एव दुग्धनाशः ?' इति केषांचिदविचारिताभिधानम् , स्वयमेव प्रागभावनाशस्य प्रतियोगिरूपस्याभ्युपगमात् । यदपि केचिदभिमन्यन्ते- 'दुग्ध-दनोर्गोरसान्वयस्तैलादिव्यावृत्तो न द्रव्याविच्छेदरूपः किन्तु जात्यविच्छेदरूपः' इति । तदपि प्रत्यभिज्ञाप्रतिहतम् , गोरसानन्वये निराश्रयस्य दन एवानुत्पत्तेश्च । 'दुग्धोपादानान्येव दन्न आश्रयः' इत्युक्त्या च नामान्तरण गोरसान्वय एवाभिहितो भवति, त्यक्तोपात्तोभयरूपस्योभयोपादानस्य कथश्चिदुभयापृथग्भूतत्वादिति दिग् ॥ ३५॥ एतदेव समर्थयन्नाहनासत्सज्जायते जातु सच्चासत्सर्वथैव हि। शक्त्यभावादतिव्याप्तेः सत्स्वभावत्वहानितः ३६० नासत्- एकान्ततुच्छम् , सज्जायते- अतुच्छं जायते, जातु- कदाचित् , शक्त्यभावादतिव्याप्तेः- तुच्छस्य प्रतिनियतातुच्छजननशक्त्यभावेन तदभावाविशेषात् , तद्वदन्यभवनापत्तेः । तथा, सर्वथैव हि सच्चासद् न जायते, सत्स्वभावत्वहानित:- असद्भवनस्वभावस्य सद्भवनस्वभावस्य विरोधात् सद्भावस्याप्यप्राप्तेः । निरूपिततत्त्वमेतत् ।। ३६ ॥ प्रस्तुतमुपसंहरन्नाहनित्येतरदतो न्यायात्तत्तथाभावतो हि तत्। प्रतीतिसचिवात्सम्यक्परिणामेन गम्यते।३७ अतः- असदादेः सदाधनापत्तेः, तत्तथाभावतः- तस्यैव तथाभवनेन, हि- निश्चितम् , तत्- वस्तु, परिणामेन। कहा Jain Education a l For Private & Personel Use Only Siwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy