________________
शास्त्रवार्ता- समुच्चयः ॥२०१॥
स्तदस्माकमिति । अत्रोत्तरम् - एतत्- अतादवस्थ्यम् , तदेव न भवतीति- 'न तत्र किश्चिद् भवति' इत्यायुक्तः, तथाचा- सटीकः। भवनलक्षणमनित्यत्वं न वस्तुलक्षणम् । अतः- अस्मादभवनात् , अन्यत्वेतादवस्थ्यस्य, ध्रुवोऽन्वयः, तस्यैव तथाभव
स्तवकः। नादिति ॥ ३३ ॥
अतोऽभिन्नत्वे नायं दोष इत्याह-- तदेव न भवत्येतत्तच्चेन्न भवतीति च । विरुद्ध हन्त किञ्चान्यदादिमत्तत्प्रसज्यते ॥३४॥
तदेव न भवत्येतद् वाक्यम् , तच्चेद् न भवतीति च विरुद्धम् , भवनस्वभावस्याभवनत्वायोगात् , 'न भवति' इत्यतश्च । त्वन्नीत्याऽभवनस्वभावत्वस्यैव प्रतीतेः 'घटोऽघटः' इति तुल्यत्वात् । 'हन्त' इत्युपदर्शने । 'किश्चान्यत्' इति दोषान्तरख्यापने। तञ्चेदमभवनमादिमत् प्रसज्यते, तदा भवनात् , इत्याशुक्तपूर्वम् ॥ ३४ ॥
- प्रकृतमेव समर्थयन्नाहक्षीरनाशश्च दध्येव यद् दृष्टं गोरसान्वितम्। न तु तैलाद्यतः सिद्धः परिणामोऽन्वयावहः॥
दध्येव चोत्पद्यमानं, क्षीरनाश:-क्षीरनाशाभिन्नम् , गोरसान्वितम्- गोरसस्थित्यनुविद्धम्, न तु तैलादि तदनन्वित तदत्यन्तभिन्नस्वभावम् , यद् - यस्मात् , दृष्टम्; अतः- अस्माद्धेतोः, परिणामोऽन्वयावहः- अन्वयाक्षेपकः, सिद्धः, उत्पादस्य
| ॥२०॥ 1 चतुर्थे स्तबके कारिका ३२ । ।
Jan Education Internal
For Private & Personal Use Only