SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ देह-मृदादिभावोपलब्धेः। अयं भावः-चित्रज्ञाने नानाकारोपलम्भेऽप्येकरूपोपलम्भाद् यथा चित्रैकरूपताऽविरोधः, तथा परिणामित्वेन भेदसिद्धावपि 'सोऽयं देहः' इत्याधभेदोपलम्भाद् न स्थैर्यबाधः, अनुभवसिद्धयोर्भेदा-ऽभेदयोरपि समावेशात् । प्रपञ्चयिष्यते चेदमुपरिष्टात् ॥ ३१ ॥ इत्थं चैतदङ्गीकर्तव्यमित्याहनार्थान्तरगमो यस्मात्सर्वथैव न चागमः। परिणामः प्रमासिद्ध इष्टश्च खलु पण्डितैः॥३२॥ यस्मात् कारणाद् नार्थान्तरगमः- न सर्वथार्थान्तरगमनम् , न च सर्वथैवागमः- एकान्तेनार्थान्तरागमनम् , परिणामः, प्रमासिद्धः-प्रमाणप्रतिष्ठितः । इष्टश्च खलु-निश्चितम् , पण्डितैः- " तद्भावः परिणामो यत् तत्तेन तथा भूयते" इति । वचनात् । युक्तं चैतत् , सुवर्ण हि कुण्डलतया परिणममानं न सर्वथैव कुण्डलभावं भजते, सुवर्णरूपस्यापि परित्यागापत्तेः; न च सर्वथा न भजतेऽपि, अकुण्डलत्वप्रसङ्गात् । येन च रूपेण यत्र स्वकालीनस्वाभिन्नोत्पादप्रतियोगित्वं तेन रूपेण तत्र तत्परिणामत्वव्यवहारः, यथा 'कुण्डलं सुवर्णपरिणामः' इति, न तु 'सुवर्ण परिणामः' इति ।। ३२ ।। ___ अत्र परोक्तानित्यतामपाकुर्वन्नाह-- | यच्चेदमुच्यते बमोऽतादवस्थ्यमनित्यताम्। एतत्तदेव न भवत्यतोऽन्यत्वे ध्रुवोऽन्वयः॥३३॥ यच्चेदमुच्यते निरन्वयनाशवादिभिः। किम् ? इत्याह- ब्रूमोऽतादवस्थ्यं भावानामनित्यताम् , परिणामित्व इष्टसिद्धि । Jain Education Intemattal For Private & Personal Use Only www.jainelibrary.org.
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy