SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ सटीकः । स्तबकः । हारनिबन्नायास्तस्या दण्डादौ विश्राव्यतिरिक्ता-ऽव्यतिरिक्तवादति । शास्त्रवातो णपागभावानाधारः कार्यमागभावाधारः क्षण एव सामग्री, नेयं कार्यजनिका, किन्तु तद्याध्या, कार्याधिकरणीभूतस्य क्षणस्य समुच्चयः कार्यप्रागभावानधिकरणत्वात् , तदधिकरणीभूतस्य च कार्यानधिकरणत्वात् , अधिकरणीभूतानापेव च कालोपाधीनां हेतु- ॥२०॥ त्वात्' इत्यपि निरस्तम् , एतस्यास्तत्र तदुत्पत्तिनियामकत्वादिति । मैवम् , सामग्याः समग्रव्यतिरिक्ता-ऽव्यतिरिक्तपरिणामविशेषरूपत्वात, घनस्य विविच्यमानस्य भूतादाविव वि. विच्यमानायास्तस्या दण्डादौ विश्रामेऽप्यविविच्यमानायास्तद्वदेकत्वात् । अभिन्नकालकृतार्थान्तरभावेन च सा विभिन्नव्यवहारनिवन्धनम् , भिन्नकालकृतार्थान्तरभावेन च कार्योपधायिकेति तत्त्वम् । नैयायिकादिनापि हि मानसादौ चाक्षुषसामग्यादिप्रतिबन्धकतादिना लाघवादपि तस्या अर्थान्तरभूतायाः कल्पयितुं युक्तत्वात् । इति नैकान्तदोषेऽप्यनेकान्ते किमपि दषणं पश्यामः। तत्र 'तत्कार्योत्पत्ती तदवच्छिन्नयावत्कारणसमवधानरूपायाः सामग्या नियामकत्वम्' इत्यपरेषां शब्दान्त रम् । अधिकं स्वधियाऽभ्यूह्यम् ।। ३० ।। Ho 'परिणामात्' इति तृतीयहेतुं दूषयितुमाह-- परिणामोऽपि नो हेतुः क्षणिकत्वप्रसाधने। सर्वदैवान्यथात्वेऽपि तथाभावोपलब्धितः॥३१॥ .. परिणामोऽपि- अतादवस्थ्यलक्षणः, नो हेतुः- न समर्थः, क्षणिकत्वप्रसाधने- निरन्वयनाशसाधने । कथम् ? इत्याहसर्वदैव- सर्वकालमेव, अन्यथात्वेऽपि-बाल-कुमारादिभावेन घट-शरावादिभावेन च विभिन्नरूपत्वेऽपि, तथाभावोपलब्धितः- ॥२०॥ Jain Education na For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy