SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Jain Education Int क्षणस्य परोपजनितकार्यापेक्षयाऽजनकत्वम्, स्वोत्पाद्यकार्यापेक्षया तु जनकत्वमिति भेदः स्यात् । कल्पनाप्रदर्शितभेदेवाधको Sभेदनिर्भासस्तूभयत्र तुल्य इति ध्येयम् । समर्थो यदि हेतुः, तदोत्पन्नमात्र एवं कार्य किं न जनयेत् । इति चेत् । तव कुर्वद्रूपः क्षणस्तदा किं न भवेत् १ | सहकार्यभावादिति चेत् । तुल्यमिदमन्यत्र । स्यादेतत् मम कुर्वद्रूपाणां दण्ड-घटादिक्षणानामेकेन घटकुर्वद्रूपत्वेनैव घटव्याप्यत्वम् परेषां त्वितरसहकारिसमवहितदण्डत्वादिना घटादिव्याप्यत्वम्, तत्राव च्छेद्यावच्छेदकभावेऽविनिगमश्चेत्यतिगौरवम् । न च घटसामग्रीत्वेन घटव्यायता, सामग्न्या एवानिरुक्तेः तथाहि न तावद् यावन्ति कारणानि सामग्री, क्रमिककारणसमुदायेऽतिव्याप्तेः नाप्येकक्षणावच्छिन्नानि यावन्ति कारणानि, यागादेश्विरातीतत्वेन स्वर्गादिसामन्यामव्याप्तेः । न च तादृशयावत्कारणसमवधानं सा, अस्ति च चिरातीतस्यापि हेतोर्व्यापाररूपसमवधानमिति वाच्यम्, विशकलिततावत्कारणसमवधाना (नासामग्री १) भावात् । न चेतर कारणविशिष्टचरमकारणमेव साः न च विनिगमनाविरहः, कार्यैकदेशताया विनिगमकत्वादिति वाच्यम्, इतरेषामपि कयाचित् प्रत्यासच्या कार्यैकदेशत्वात्, अन्यथा चरमकारणे तद्वैशिष्ट्यानिरुक्तेः । न च चरमकारणमेव सा, तस्य संयोगत्वादिनासामग्रीत्वात् चरमत्वेन तत्वे वाव्यवहितपूर्ववर्तिना संबन्धेन फलविशिष्टोत्पत्तिकत्वं तदिति लाघवात् तेन संबन्धेन फलवस्यैव सामग्रीत्वौचित्यात् । एवं च 'सामग्यभावात् कार्याभावः' इत्यत्र फलतः 'स्वाभावादेव स्वाभावः' इति सामग्रीभेदात् कार्यभेद इति; अत्र च फलतः स्वभेदादेव स्वभेद इत्यापतितमिति न किञ्चिदेतत् । एतेन 'प्रागभावेतरकादाचित्कयावत्कार १ ख. ग. घ. च. 'भेदे बा' । For Private & Personal Use Only ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy