________________
शास्त्रवार्ता
सटीकः। स्तत्रकः।
नचातीतस्य वस्तुना, सामर्थ्य स्वहेतोरपतिरिक्तम् , तस्या- अर्थक्रियायां द्वितीयक्षणलक्षणायाम्, इति- एतत् , समुच्चयः ॥१९९॥
निदर्शितम् , 'अन्यस्य सामर्थ्यमन्यत्रेति न संगतम्' इत्यनेन । न चान्यो लौकिकः- लोकप्रसिद्धः, कश्चिच्छब्दार्थः, अत्र| अर्थक्रियायां सामर्थ्यमिति वाक्ये, इति- एवम् , अयुक्तिमदर्थक्रियासमर्थत्वं क्षणिकत्वे यद् गीयत इति ।
यच्च क्रम-योगपद्याभ्यामर्थक्रिया स्थिराद् व्यावर्तमाना क्षणिकतायामेवावतिष्ठत इत्युच्यते । तत् कदाशामात्रम् , स्वभिन्नF क्रमिकार्थक्रियाभेदेऽपि हेतोरभेदात् । न च हेतोः प्रतिक्षणमभिन्नरूपत्वेऽर्थक्रियापि युगपद् भवेदिति वाच्यम् , नियमाभावात् ,
यथा दर्शनम् , हेतोरभेदस्यार्थक्रियाभेदस्य च संभवात् । न च प्रतिक्षणविशरारुताऽविनाभूतः क्रमवदर्थक्रियोत्पादः कचिदुपलब्धः, येन तदुदयक्रमात् तदेतोः प्रतिक्षणभेदः सिद्धिमासादयेत् । न चार्थक्रियापि प्रतिक्षणं भेदवती सिद्धा, तत् कथं स्वयमसिद्धहेतोः प्रतिक्षणभेदमवगमयेत् । न च सौगतानां कालाभावादक्रियाक्रमोऽपि युक्तः, कार्यपरम्पराव्यतिरिक्तस्य कालस्य तैरनभ्युपगमात् । न च फलभेदमात्राद् हेतुभेदव्यवस्था, एकेनापि प्रदीपादिनानेककार्याणामेकदा करणात् । परपरिकल्पितकालाभ्युपगमेन कार्यक्रमश्च प्रमाणाभावे दुर्घटः । न च तदभ्युपगमेन कारणक्रमोपपत्तावपि स्थैर्यभङ्गः । जनकत्वाजिनकत्वस्वभावभेदादसौ स्यादिति चेत् । न, क्रमोपेतकार्योपलम्भात् , कल्पनाध्यवसितन जनका-ऽजनकत्वस्वभावभेदेनापि भावाभेदात; अन्यथा भावानामेकत्वमध्यवस्यन्ती कल्पना तब स्थैर्यमपि किं न दर्शयेत। तस्मादुदितफलापेक्षया कल्पना भावानां जनकत्वमध्यवस्यति, अनुदितफलापेक्षया तु तत्रैव जनकत्वमध्यारोपयतीति न भेदः, न चेदेवम् । एकस्यापि
प्रस्तुतस्तबके कारिका २७। २ ख, ग, घ, च. 'यमः ।
॥१९९॥
JainEducation
For Private
Personal Use Only