SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता सटीकः। स्तत्रकः। नचातीतस्य वस्तुना, सामर्थ्य स्वहेतोरपतिरिक्तम् , तस्या- अर्थक्रियायां द्वितीयक्षणलक्षणायाम्, इति- एतत् , समुच्चयः ॥१९९॥ निदर्शितम् , 'अन्यस्य सामर्थ्यमन्यत्रेति न संगतम्' इत्यनेन । न चान्यो लौकिकः- लोकप्रसिद्धः, कश्चिच्छब्दार्थः, अत्र| अर्थक्रियायां सामर्थ्यमिति वाक्ये, इति- एवम् , अयुक्तिमदर्थक्रियासमर्थत्वं क्षणिकत्वे यद् गीयत इति । यच्च क्रम-योगपद्याभ्यामर्थक्रिया स्थिराद् व्यावर्तमाना क्षणिकतायामेवावतिष्ठत इत्युच्यते । तत् कदाशामात्रम् , स्वभिन्नF क्रमिकार्थक्रियाभेदेऽपि हेतोरभेदात् । न च हेतोः प्रतिक्षणमभिन्नरूपत्वेऽर्थक्रियापि युगपद् भवेदिति वाच्यम् , नियमाभावात् , यथा दर्शनम् , हेतोरभेदस्यार्थक्रियाभेदस्य च संभवात् । न च प्रतिक्षणविशरारुताऽविनाभूतः क्रमवदर्थक्रियोत्पादः कचिदुपलब्धः, येन तदुदयक्रमात् तदेतोः प्रतिक्षणभेदः सिद्धिमासादयेत् । न चार्थक्रियापि प्रतिक्षणं भेदवती सिद्धा, तत् कथं स्वयमसिद्धहेतोः प्रतिक्षणभेदमवगमयेत् । न च सौगतानां कालाभावादक्रियाक्रमोऽपि युक्तः, कार्यपरम्पराव्यतिरिक्तस्य कालस्य तैरनभ्युपगमात् । न च फलभेदमात्राद् हेतुभेदव्यवस्था, एकेनापि प्रदीपादिनानेककार्याणामेकदा करणात् । परपरिकल्पितकालाभ्युपगमेन कार्यक्रमश्च प्रमाणाभावे दुर्घटः । न च तदभ्युपगमेन कारणक्रमोपपत्तावपि स्थैर्यभङ्गः । जनकत्वाजिनकत्वस्वभावभेदादसौ स्यादिति चेत् । न, क्रमोपेतकार्योपलम्भात् , कल्पनाध्यवसितन जनका-ऽजनकत्वस्वभावभेदेनापि भावाभेदात; अन्यथा भावानामेकत्वमध्यवस्यन्ती कल्पना तब स्थैर्यमपि किं न दर्शयेत। तस्मादुदितफलापेक्षया कल्पना भावानां जनकत्वमध्यवस्यति, अनुदितफलापेक्षया तु तत्रैव जनकत्वमध्यारोपयतीति न भेदः, न चेदेवम् । एकस्यापि प्रस्तुतस्तबके कारिका २७। २ ख, ग, घ, च. 'यमः । ॥१९९॥ JainEducation For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy