________________
Jain Educatio
aster प्रमाणाभावेन सद्व्यवहारनिषेधः, न्यायस्य समानत्वात् । निरस्तो 'नाशहेतोरयोगतः' इत्यायो हेतुः ॥ २३ ॥ अथ 'अर्थक्रियासमर्थत्वात्' इति द्वितीयं हेतुं दूषयितुमाह
अर्थक्रियासमर्थत्वं क्षणिके यच्च गीयते । उत्पत्त्यनन्तरं नाशाहिज्ञेयं तदयुक्तिमत् ॥ २४॥ अर्थक्रियासमर्थत्वं क्षणिके- निरम्बयनश्वरे वस्तुनि, यच्च गीयते परैः, तदुत्पश्यनन्तरं नाशादयुक्तिमद् विज्ञेयम् ||२४|| कथम् इत्याह१
अर्थक्रिया यतोऽसौ वा तदन्यो वा द्वयी गतिः । तत्त्वे न तत्र सामर्थ्यमन्यतस्तत्समुद्भवात् ॥ अर्थक्रिया यतोsatar - जनकत्वाभिमतः पदार्थ एव वा स्यात्, तदन्यो वा तदनन्तरभावी पदार्थ एव वा द्वयी गतिः- द्वाविमावत्र प्रकारौ। आधे दूषणमाह-तवे- अर्थक्रियायास्तदात्मकत्वे, न तत्र - अर्थक्रियायाम्, सामर्थ्य 'तस्य ' इति योगः । कुतः ? इत्याह- अन्यतः - स्वहेतोः, तत्समुद्भवात् तस्याखिलस्वधर्मान्वितस्योत्पादात्, स्वस्य जनकत्वं च दृष्टे-ष्टाभ्यां त्रिरुद्धम् । तस्माद् नार्थक्रियायास्तदभेदे तस्यार्थक्रियाया उत्पादे सामर्थ्यम् ॥ २५ ॥
नापि तद्धारण-नाशयोरित्याह
१ चतुर्थस्तके द्वितीयकारिकायां प्रतिपादितः ।
mational
२' दम्या वा इति सर्वत्र मुद्रितपुस्तके च पाठः ।
For Private & Personal Use Only
www.jainelibrary.org