SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता - समुच्चयः ॥१९७॥ भवति - स जनकः स्वनिवृत्तिस्वभावः स्यात्, कार्यजननस्वभावो वा, उभयस्वभावो वा अनुभयस्वभावो वा १ । आये, स्वयं निवर्तेतैव न कार्य जनयेत् । द्वितीये, कार्यमेव जनयेद् न निवर्तेत । तृतीय चतुर्थयोस्तु विरोधा ऽसंभवौ । अथ स्वनिवृत्तिरेव कार्यजननमिति न विरोध इति चेत् । तर्हि जननं कार्याव्यतिरिक्तमिति कार्यमेव, तच्च स्वनिवृत्तिः, सा च स्वात्मिकेत्यनिवारितोऽन्वयः, कार्याभावो वा क्रमिकनिवृत्तिकार्यजननस्वभावकं च नैकं क्षणिकमित्यादि स्वधियाऽभ्यूहनीयम् ॥२१॥ नन्वेवं हेतुफलभावनिषेधः कृतः स्यात्, स च प्रत्यक्षवाधित इत्याशङ्कापोहायाह न चाध्यक्षविरुद्धत्वं जनकत्वस्य मानतः । असिद्धेरत्र नीत्या तद्व्यवहारनिषेधतः ॥ २२॥ न चाध्यक्षविरुद्धत्वमत्र बाधकमुद्भावनीयम्, जनकत्वस्य मानतः प्रमाणात्, असिद्धेः, अत्र नीत्या- न्यायेन, तद्व्यवहार निषेधत:- जनकत्वव्यवहारनिषेधात् प्रमाणाभावस्य सद्व्यवहारविषयत्वानुमापकत्वात् अपेक्षया चोक्तरीत्यात्रार्थे प्रमाणाभावाव्याघातादिति भावः ।। २२ ।। अयं च परेणाप्याश्रित एवं न्याय इत्याह मानाभावे परेणापि व्यवहारो निषिध्यते । सज्ज्ञानशब्दविषयस्तद्वदत्रापि दृश्यताम्॥२३॥ परेणापि - बौद्धेनापि मानाभावे - प्रमाणाभावे, कचिद् वस्तुनि प्रधानेश्वरादौ सज्ज्ञानशब्दविषयो व्यवहारो निषिध्यते - प्रधानादिकं 'सद्' इति न ज्ञेयम्, 'सद्' इति नाभिधेयं वा, प्रमाणेनानुपलभ्यमानत्वादिति । तद्वदत्रापि- जनक Jain Education International For Private & Personal Use Only सटीकः । स्तबकः । ॥ ६ ॥ ॥१९७॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy