SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ नैव जन्यस्य जनकव्यापारवैफल्यात् , सत एव करणे चानिष्ठितेः । यदि च स्वकारणादुत्पत्तिरात्मलाभो यस्य स स्वोत्पत्तिधर्मा तं यदि खहेतुर्नोत्पादयेत् , तदा विरुद्धमभिधानं स्यात् , उत्पत्त्यनन्तरं च तस्य स्वत एव नाशात् कस्य पुनरुत्पत्चिरिति नानिष्ठितिरित्युच्यते तदा विनाशकारणाद् विनाश आत्मप्रच्युतिलक्षणो धर्मो यस्य तं यदि विनाशहेतुर्न विनाशयेत् तदा विरुद्धाभिधानं स्यादित्याद्यपि तुल्यम् । द्वितीये दोषमाह- जन्मायोगादिदोषाच- इतरस्याप्यसत्स्वभावस्य जन्यस्यापि, जनक इति पृथक्कृतयोगः, न युज्यते 'जननस्वभावः' इति शेषः। असतो जन्मायोगश्च जन्मनः सत्तारूपत्वेन प्रकृत्यन्यथात्वानुपपत्तेः, उत्पत्तो वोत्पादहेतुनाऽसतः सत्करणवद् नाशहेतुनापि सतोऽसत्करणसंभवात् , असत्कार्यपक्षोक्तसकलदोषप्रसङ्गाच ॥ २०॥ अन्त्यविकल्पद्वये दोषमाहन चोभयादिभावस्य विरोधासंभवादितः । स्वनिवृत्त्यादिभावादी कार्याभावादितोऽपरे॥ न चोभयादिस्वभावस्य-उभयखभावस्य, अनुभयस्वभावस्य वा जन्यस्य जननवभावो जनकः। कुतः? इत्याहविरोधासंभवादित:- उभयखभावजन्यजनकत्वे वस्त्वविरोधेऽपि स्वमतविरोधात् , अनुभयस्वभावजन्यजनकवे चासंभवात्- तादृशस्य जन्यस्य निःस्वभावत्वेनानुपलब्धः। आदिना जन्यस्योभयस्वभावत्वे वस्तुन एव स्थिरा-ऽस्थिरोभयस्वभाबत्वे किमीशप्रयासेन ? इत्यादि द्रष्टव्यम् । परेषां पुनरिह प्रकारान्तरेणानिष्टापादनविधिमाह- स्वनिवृत्त्यादिभावादौ- जनकस्य निवृत्यादिस्वभावत्वे, कार्याभावादित:- कार्यानुत्पत्त्यादिदोषप्रसङ्गात् , अपर आचार्याः, जनकस्याहेतुत्वमाहुः । इदमुक्तं PROD कलाबाट Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy