________________
शास्त्रवार्ता - समुच्चयः ।
॥ १९८ ॥
Jain Education Inte
स्तबकः ।
न स्वसंधारणे न्यायाज्जन्मानन्तरनाशतः । न च नाशेऽपि सद्युक्त्या तद्धेतोस्तत्समुद्भवात् ॥ सटीकः । न स्वसंधारणे- अर्थक्रियास्थापने, न्यायादस्य सामर्थ्यम् । कुतः ? इत्याह- जन्मानन्तरनाशतः- उत्पस्यनन्तरं स्वधमादायैव स्वस्य नाशात् । न च नाशेऽप्यर्थक्रियायाः, तत्सामर्थ्य, सद्युक्त्या - युक्तम् । कुतः ? इत्याह- तद्धेतोस्तसमुद्भवात् स्वहेतोरेव नश्वरस्वभावोत्पत्तेः ॥ २६ ॥
॥ ६ ॥
द्वितीयप्रकारे दोषमाह -
अन्यत्वेऽन्यस्य सामर्थ्यमन्यत्रेति न संगतम् । ततोऽन्यभाव एवैतन्नासौ न्याय्यो दलं विना ॥
अन्यत्वे- अर्थक्रियायाः स्वभिन्नत्वेऽभ्युपगम्यमाने, अन्यस्य- हेतोः, अन्यत्र - अर्थक्रियायाम्, सामर्थ्यम्, इत्य संगतम् - अयुक्तम्, सामर्थ्य -सामर्थ्य व तोरभेदात् सामर्थ्यवदन्यत्र तदभावात् । स्यादेतत्, ततः- दण्डादेः, अन्यभाव एवघटाद्युत्पाद एवं एतत् सामर्थ्यम्, नान्यदिति । अत्राह - नासौ अन्यभावः, न्याय्यः- घटमानकः, दलं विना- तथाभाविनमुपादानमन्तरेण ॥ २७ ॥
एतदेव स्पष्टयति-
| नासत्सज्जायते यस्मादन्यसत्त्वस्थितावपि । तस्यैव तु तथाभावे नन्वसिद्धोऽन्वयः कथम् ?
I
For Private & Personal Use Only
॥१९८॥
www.jainelibrary.org