________________
प्रसङ्गः, तत्सामर्थ्य विशेषेण कार्यविशेषात । हिंसकत्वव्यवहारस्तु तथाविधविकल्परूपः सांवृतं नाशमादायैवेति न दोष इति चेत् । नैतदेवम् , यस्मात् त्वनीतिता- त्वदभ्युपगतन्यायात् , अयमेव- संक्लेश एव, न युज्यते ॥ १६ ॥
कथम् ? इत्याहसंक्लेशो यद् गुणोत्पादः स चाक्लिष्टान्न केवलात्।न चान्यसचिवस्यापि तस्यानतिशयात्ततः
यद्- यस्मात् , संक्लेशो गुणोत्पादः- क्लिष्टचित्तोत्पादः, स च केवलात्- अन्यसहकारिरहितात्, अक्लिष्टादुपादानात् , BON न भवति, ततोऽसंक्लिष्टचित्तस्यैवोत्पादात् । न चान्यसचिवस्यापि - हिंस्यादिसहकारिसमवाहितस्यापि तस्य- उपादानस्य, अनतिशयात् , ततः- अन्यसहकारिणः सकाशात् संक्लेश इति योगः, अनतिशयस्य समानासमानकालकरणायोगात् ॥१७॥
पराशयमाशङ्कय परिहरतितं प्राप्य तत्स्वभावत्वात्ततःस इति चेन्ननु । नाशहेतुमवाप्यैवं नाशपक्षेऽपि न क्षतिः॥१८॥
तं- हिंस्यादिकं, प्राप्य, तत्स्वभावत्वात्- संक्लेशजननस्वभावत्वात् तदुपादानस्य, ततः- सहकारिणः, सः- संक्लेश | इति चेत् । नन्वेवं नाशहेतुं- मुद्रादिकम् , अवाप्य, एवं- स्वभावकल्पनायां, अनाशपक्षेऽपि न क्षतिः-न विरोधः, तस्यापि तं माप्य स्वनिवृत्तिस्वभावत्वात् । न च वस्तुमात्रजनका एव नाशजनका इति नाशजनने न सहकार्यनुप्रवेशापेक्षा, असंक्लेशमात्रजनका एव च न संक्लेशजनका इति संक्लेशे जननीये तदुपादानक्षणानां तदपेक्षा, शिंशपाक्षणानामिव चलशिंशपायां जननीयायां नोदना
CORDPRESCORCH
Jain Education
national
For Private & Personel Use Only
www.jainelibrary.org