________________
शास्त्रवार्ता विसभागक्षणस्याथ जनको हिंसको, न तत् । स्वतोऽपि तस्य तत्प्राप्तेर्जनकत्वाविशेषतः॥ सटीकः । समुच्चयः। ॥१९५॥
अथ विसभागक्षणस्य- शूकरक्षणात् शशक्षणादेः, जनकः, हिंसको लुब्धकक्षणः, चरमशूकरक्षणात् शशक्षणसमानकालभावी तज्जनितकर्मवासनया चाग्रिमलुब्धकक्षणेषु तत्कर्मविपाकफलोपभोग इति भावः । न तत्- नैतदेवम् । कुतः ? इत्याह- स्वतोऽपि-खात्मनोऽपि, तस्य- हिंस्यस्य शूकरक्षणादेः, तत्माप्तेः-हिंसकत्वप्राप्तेः । कथम् ? इत्याह- जनकत्वाविशेषतः- लुब्धकक्षणस्येव शूकरक्षणस्यापि जनकत्वमात्रेऽविशेषात् । निमित्तकारणतया विसभागक्षणजनकत्वं हिंसकत्वम्, शूकरक्षणस्तूपादानतया तजनक इति न दोष इति चेत् । न, आत्महिंसासंग्रहानुरोधेन हिंसकतायां जनकताविशेषस्यानुपादानात् । तथाप्यत्र परहिंसकत्वे विशेषोऽयमुपादीयत इति चेत् । किं ततः?- एवमपि शूकरक्षणादेरात्महिंसकताकृतदोषापत्तेर्वज्रलेपायमानत्वादिति भावः ॥ १५॥
___इहैवाक्षेप-परिहारावाहहन्म्येनमिति संक्लेशादिंसकश्चेत्प्रकल्प्यते। नैव त्वन्नीतितो यस्मादयमेव न युज्यते॥१६॥
'हन्म्येनम्' इति संक्लेशाद् हेतोः, हिंसकः प्रकल्प्यते लुब्धकादिक्षणः, क्लिष्टविज्ञानक्षणस्यैव क्लिष्टकर्मक्षणहेतुत्वात्EP मृगमव्यापादयन्नपि 'मृगं हन्मि' इति संक्लेशपरिणतः पापेन बध्यते, यतमानश्च विचरन्ननाभोगाद् नन्नपि कथंचिल्लघुपाणिनं व
न पापेन बध्यते त्वसंक्लिष्ट इत्यन्वय-व्यतिरेकदर्शनात् । न चैवं व्यापादिता-ऽव्यापादितमृगयोः संक्लिष्टक्षणयोरविशिष्टकर्मार्जन- ॥१९५॥
Jain Education in
For Private & Personal Use Only
ow.jainelibrary.org