________________
Here
केनचित्-लुब्धकादिना, कचित- अरण्पादौ, कश्चित-शूकरादिः, न व्यापाद्यते, अहिंसादशायामिव हिंसादशायामपि । माणिक्षणानां खत एव नश्वरत्वात् , सांवृतनाशस्य च खपुष्पवदनुत्पाद्यत्वादिति भावः ॥ १२ ॥
पराभिप्रायमाशङ्कय परिहरतिकारणत्वात्स संतानविशेषप्रभवस्य चेत् । हिंसकस्तन्न संतानसमुत्पत्तेरसंभवात् ॥१३॥
सः- लुब्धकादिः, संतानविशेषप्रभवस्य-शूकरादिविसभागसंतानोत्पादस्य, कारणत्वाद् हिंसक:- शूकरादिव्यापादकः, चेत्- यद्येवं मन्यसे । तन्न- तदयुक्तम् , संतानसमुत्पत्तेस्त्वदभिप्रायेणासंभवात् ॥ १३ ॥
असंभवमेव विवृणोतिसांवृतत्वाव्ययोत्पादौ संतानस्य खपुष्पवत् । न स्तस्तदधर्मत्वाच्च हेतुस्तत्संभवे कुतः?
बात , व्ययो-त्पादौ- नाशो-त्पत्ती, संतानस्य, खपुष्पवत्- वियत्कुसुमस्येव, न स्त:-न संभवतः, नाशो-त्पादयोर्वस्तुधर्मत्वात् । तदधर्मत्वाच- संतानाधर्मत्वाचोत्पादस्य, तत्संभवे- संतानविशेषप्रभवे, हेतुः कुतः?न कुतश्चिदित्यर्थः ॥ १४ ॥
पुनः पराशयमाशङ्कय परिहरति
Jain Education in
For Private & Personal Use Only
X
ww.jainelibrary.org