________________
सटीकः। स्तबकः।
शासना- मन्यत्र । एतेन 'तपावच्छिन्नजन्यतारूपं स्वातन्त्र्यं नोत्पादे नाशे च तदव्याहतम् , घटध्वंसार्थितया प्रवृत्तेः' इत्युक्तावपि समुच्चयःन क्षतिः। ॥१९४॥
यदपि 'किश्च, अस्य हेतुमच्वेऽपि नाशमसङ्गो दुरुद्धरः' इत्याद्यभाणि । तदपि न निरवद्यम्, समुदयकृतादिनाशविशेपस्य नष्ट इति व्यवहारहेतोर्विशेषसामग्यभावादेवाभावात् 'त्रैलक्षण्यरूपवस्तुलक्षणघटकस्य तु कस्यचिद् नाशस्य तत्राभ्युपग| मादेव । न च कपालादिनाश एवं तदाश्रितघटनाशादिनाशहेतुरिति वाच्यम् , अस्माकमाश्रयनाशस्याश्रितनाशाहेतुत्वात , घट-तद्रूपादीनामेकदैव नाशात् , तत्तन्नाशविशेषे तत्तच्छक्तिविशेषस्यैव नियामकत्वात् । किञ्च, कार्यत्वेन नाशहेतुत्वमप्या
काशादीनां नाशानुपपत्यैव कल्प्यते, अन्यथा सत्वेनैव तत्त्वं स्यात् । तथाच नाशस्यापि तदनुपपच्या नाशेतरत्वमपि निवेश्यताम् , Ex गौरवस्य प्रामाणिकत्वादिति । यदपि मुद्रादेः कपालाद्युत्पत्तावन्तरा ध्वंसादर्शनमुक्तम् । तदनुक्कोपालम्भमात्रम् । तस्माद्
नाकिश्चिद्रूपो नाश इति सिद्धः सहेतुकोऽयम् ।। ११ ॥ ___ अत्रैव दोषान्तरमाहशकिञ्च निर्हेतुके नाशे हिंसकत्वं न युज्यते । व्यापाद्यते सदा यस्मान्न कश्चित्केनचित्वचित् ॥
किञ्च, निर्हेतुके नाशेऽभ्युपगम्पमाने, हिंसकत्वं न युज्यते कचित् कस्यचित् । कथमित्याह- यस्माद्धेनोः, सदा, । उत्पाद-व्यय-प्रौव्यस्वरूपम् । २ आर्हतानाम् ।
AA
॥१९४॥
स
Join Education in
For Private & Personal Use Only
Hwww.jainelibrary.org