________________
स्यात् : हेत्वन्वय-व्यतिरेकानुविधानं चोभयत्र तुल्यमिति ।
अथ मुद्गराद्यन्वय-व्यतिरेकानुविधानं कपालजनन उपक्षीणम् , यथा नैयायिकादीनां भूतले घटानयनं भूतलघटसंयोKगजनने, तस्य माग्वर्तिघटात्यन्ताभावानाशकत्वात; घटानुपलम्भस्तु तदा स एव खरसतो न भवतीति हेतोरिति चेत् । न,
'स न' इत्यत्र नशब्दवाच्यस्यैवाभावस्याभ्युपगमात् । किश्च, तदा 'घटो न भवति' इत्येतावन्मानं न प्रतीयते, किन्तु 'घटो नष्टः' इति । यदपि 'यदि हेतुमान् विनाशस्तदा तद्भेदादात्मभेदं किं नानुभवेत् ?' इत्यायुक्तम् । तदप्ययुक्तम् , उत्पादेऽप्यस्य पर्यनुयोगस्य समानत्वात् । उत्पत्याश्रयविशेषादुत्पादविशेष इष्ट एवेति चेत् । नाशाश्रयविशेषाद् नाशविशेषोऽपीध्यताम् । उत्पादाद्यन्वितधर्मिण एव स्वहेतुजन्यत्वादुत्पादस्य स्वातन्येणाजन्यवाद् न विशेष इति चेत् । नाशाद्यन्वितक| पालादिधर्मिण एव मुद्गरादिजन्यत्वाद् नाशस्यापि तथात्वाद् न विशेष इति तुल्यम् ।।
किश्च, हेतुभेदकृतो व्यक्तिविशेषो नाशेऽभ्युपगम्यत एव, जातिरूपविशेषस्तु भावधर्मत्वादेव तत्र नास्तीति किमपरमापाद्यते । न हि विजातीय हेतुजन्यत्वं कार्यवैजात्यप्रयोजकम् , एकत्रापि घटे दण्डादिनानाजातीयहेतुजन्यत्वेन नानाजातीयत्वप्रसङ्गात् , किन्तु तज्जातीयसामग्रीजन्यत्वं तज्जातीयत्वप्रयोजकमिति । तथा च घट-पटादीनां विजातीयानां स्वस्वसाम
ग्रीप्रयोज्यवैजात्यसंभवेऽपि नाशानां सर्वेषामेकरूपाणां स्वस्वसामग्रीभेदजन्यत्वेऽप्येकत्वं न विहन्यत इति । एतेन 'प्रतिपुरुष o कर्मणां विशेषात् तत्क्षयस्यापि जन्यस्य सतो विशेषसंभवात् प्रतिपुरुषं मुक्तिवैचित्र्यं स्यात्' इति निरस्तम् , अविशिष्टखभा
वस्य हेतुसहस्रेणापि विशेषयितुमशक्यत्वात् , विभिन्नसामग्रीजन्यतायां च प्रतियोगिभेदस्यैव निवेशनीयत्वादिति विपश्चित
JainEducation international
For Private & Personel Use Only
www.jainelibrary.org