SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चयः सटीकः । स्तबकः। SAMEETTES __यत्तु- 'तुच्छकरूपतयाऽनुभूयतेऽभावः' इत्युक्तम् । तदनभ्युपगमोपहतम् , उभयरूपस्यैव तस्यानुभवात् । अभावां- शानुभवकाले भावत्वेनाननुभूयमानत्वं तुच्छत्वमिति चेत् । भावांशानुभवकालेऽभावत्वेनाननुभूयमानत्वमपि किं न तथा शशविषाणादिवद् निःस्वभावतयाऽनुभूयमानत्वं सुच्छत्वं चेत् । न, असिद्धस्ततुल्यत्व उत्पादादियोगितयाऽननुभवप्रसङ्गात् । किश्च, अयमीदृशः सन् मुद्रादिव्यापारानन्तरमेव कथमुपलभ्यते, नान्यदा ? इति । असतोऽपि शुक्तौ रजतादेः शुक्तिभ्रमदशायामेव दर्शनवदसम्नपि घटध्वंसः परैस्तद्धतुत्वाभिमतानां समवधान एवोपलभ्यत इति चेत् । नन्वेवमनन्यथासिद्धान्वय-व्यतिरेकप्रतियोगिमुद्रादिजन्यत्वस्य घटध्वंसेऽपलापे घटादेरप्यसत एव दण्डादिसमाजे भानोपपत्तावपलापप्रसङ्गः। न चेष्टापत्तिरत्र योगाचारस्यति वाच्यम् , ज्ञानाकारस्यापि घटादेरसत एव तदा स्फुरणापत्तेः। घटाद्यार्थिप्रवृत्त्यायन्यथानुपपत्त्या घटादेः सखोपगमे घटध्वंसाद्यर्थिप्रवृत्त्यन्यथानुपपत्त्या घटध्वंसादेरपि सत्वं किं नेष्यते । यदपि 'भवितृत्वेऽभावस्य भावत्वं स्यात' इति । तदप्यवद्यम्, अभावप्रत्ययविषयत्वेन भवितृत्वेऽप्यभावरूपत्वात् । यथा भवितृत्वनाविशेषेऽपि घट-पटयोः 'घटोऽयम' 'पटोऽयम इति विभिन्नधीविषयत्वादु विशेषस्तथा भवितृत्वेनाविशेषेऽपि भावा-ऽभावयोः 'अस्ति' 'नास्ति' इति धीविषयत्वेन विशेषसंभवात । यदपि 'अभावात्मकतयैव चासो भवतीति च व्याहतमेतत्' इति । तदपि तुच्छम , अभावपदस्याभवनरूपक्रियार्थत्वाभावात, भावत्वस्य भावपदस्येवाभावस्वस्यैवाभावपदस्य प्रवृत्तिनिमित्तत्वात् । अन्यथा 'भावो भवति' इति 'भवनं भवति' इतिवद् निराकाझं स्यात् । अथ 'नास्ति' इति धीविषयत्वादेव शशविषाणादिवद् न नाशः कार्य इति चेत् । 'अस्ति' इति धीविषयत्वादाकाशादिवद् घटादिरपि न तथा RRORERE Jan Educaton Internationa For Private & Personel Use Only FEAlwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy