________________
३३
Jain Education
अत्र ब्रूमः - अङ्गारादिसदेशानुविद्धास देशरूपायाः काष्ठादिनिवृत्तेरभ्युपगमे किं दूषणम् । 'काष्ठादेरङ्गारादिकमेव ध्वंसो नापर:' इत्यत्र किं निबन्धनम् । इत्यत्र 'अङ्गारादिरूपध्वंसे काष्ठादिनिरूपितत्वे किं प्रमाणम् ?' इति प्रश्ने तत्प्रतियोगि कत्वेनानुभवस्यैवोत्तरत्वात् । 'अङ्गारादेस्तद्ध्वंसत्वे किं मानम् ?' इति प्रश्ने च 'तस्मिन् सति तन्निवृत्ति : ' इत्येवोत्तरम्, 'अङ्गारादिकं काष्टध्वंसः काष्ठानुपलब्धिनियतोत्पत्तिककाष्ठ परिणामत्वात् काष्ठचूर्णवत्' इत्यनुमानात् । अन्यस्य तथात्वं किं न भवति । इत्यत्र च स्वभाव एव नियामकः । कपालस्वरूपानुभवे घटनिवृत्यननुभवाद् न तद्रूपा तन्निवृत्तिरिति चेत् । न, कपालोत्पादस्याऽप्येवमतद्रूपत्वापत्तेः । कपालाद्यभिन्नायां निवृत्ती, उत्पत्ताविव घटीयत्वं न स्यादिति चेत् । न, 'घटादुत्पन्नः' इत्युत्पत्तौ घटावधिकत्ववद् 'घटस्य नाशः' इत्यत्र निवृत्यशेऽपि घटप्रतियोगित्वेऽविरोधात्, एकान्त एव तत्सरात् । एवं चामस्तुताभिधानमपि निरस्तम्, निवृत्यंशस्याधिकत्वात् । एतेन भावान्तररूपत्वे ध्वंसस्य तन्नाशे प्रतियोग्युन्मज्जनमपि निरस्तम्, कपालद्रव्यस्य भावात्मकरूपान्तरपरिग्रहेऽपि नित्यात्मकरूपान्तरापरिग्रहात् । कपालात्मना भङ्गुरं कपालं घटनिवृत्यात्मनापि किं न भङ्गुरम् ? इति चेत् । कपालैक्योपलम्भजनकदोषात्मना निवर्तमाना कपालक्षणसंततिर्मृदैक्योपलम्भजनकदोषात्मनापि किं न निवर्तते १ इति वक्तव्यम् । सा संततिः प्रदीर्घेति चेत् । निवृत्तिसंततिरपि तथा । इयांस्तु विशेष:- यदियं निवृत्यात्मना प्रत्यभिज्ञा विशेषात्मक मृद विखण्डैकतां, प्रतिकपालादिविशेषं च भावात्मना सखण्डैकतामनुभवतीति । कपालात् पृथक्कृत्य 'घटनाशं कपालं नष्टं' इतिवद् 'घटनाशो नष्टः' इति किं न प्रयोगः ९ इति चेत् । न यथा मृद्रव्यं नष्टमिति । विवक्षाभेदेन तत्र योग्या - योग्यत्वमिति चेत् । तुल्यमेतदन्यत्र ।
For Private & Personal Use Only
www.jainelibrary.org