________________
शान्तवार्तासमुच्चयः ॥१९२॥
सटीकः। स्तबकः।
Sele
एवेति न परेषां साध्यसिद्धिः। आये, अग्न्यादेरवस्तुरूपध्वंसोपगमेऽपि काष्ठादेस्तदवस्थत्वात पुनरुपलब्धिप्रसङ्गः, वस्तुरूप- तदुपगमे च काष्ठादेरङ्गारादिकमेव ध्वंसो नापर इत्यत्र किं निबन्धनम् । तस्मिन् सति तनिवृत्तिरिति चेत् । न, अन्यनिवृत्त्यनभ्युपगमेनैतदर्थाभावात् । किञ्च, एवं भावनिवृत्तावभिधेयायां भावान्तरविधानमभिंहितमित्यप्रस्तुताभिधानम् । किश्च, भावान्तरस्य प्रध्वंसते तद्विनाशाद् घटायुन्मजनासक्तिः । न च कपालादेर्भावरूपतैव ध्वस्ता न त्वभावरूपतेति नायं दोष इति वाच्यम् , भावान्तररूपस्याभावस्य तदभावे प्रच्युतत्वात् । किश्च, अमावस्तुच्छैकरूपतयैवानुभूयते, न तु भावरूपानुविद्धः, तस्य च कार्यत्वे हेत्वनन्तरं भवितृत्वेन भावत्वं स्यात्, अभावात्मकतयैवासौ भवतीति च व्याहतमेतत् ।
अपि च, यदि हेतुमान् विनाशस्तदा तद्भेदादात्मभेदं किं नानुभवेत् ।। दृष्टो हिँ घटादीनां कार्यरूपाणां कारणभेदाद् | भेदः । ध्वंसस्य त्वग्न्यभिघातादिहेतुभेदेऽपि न भेदोऽनुभूयते, सर्वत्र विकल्पज्ञाने तुल्यरूपस्यैवाभावस्थावभासनात् । किञ्च, अस्य हेतुमचे विनाशप्रसङ्गो दुरुद्धरः, तद्विनाशहेत्वदर्शनात् । तदविनाशे बुख्यादीनामप्यनाशमसङ्गः। कार्यत्वेन प्रतियोगितया नाशहेतुत्वाद् बुद्ध्यादीनां विनाशः कल्प्यत इति चेत् । तुल्यमिदमन्यत्र । भावकार्यत्वेनैव तथात्वाद् न दोष इति चेत् । न, भावत्वप्रवेशे गौरवात् , प्रागभावासंग्रहाच्च । यस्तु घटनाशनाशादिधारामेव घटविरोधिनीमङ्गीकुरुते, तस्य 'घटनाशो नष्ट' इत्यपि धीनिवारा । तस्माद् मुद्रादेः कपालाद्युत्पत्तावन्तरा कस्यचिद् ध्वंसस्यादर्शनादकिश्चिद्रूपतयानुभूयमानोऽसन्नेवाऽयम् , न तु सहेतुकः, अनन्ततद्धत्वादिकल्पने गौरवाचेति ।
कपालादेरभावरूपताया अभावे स्वीक्रियमाण इत्यर्थः ।
॥१९॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org