________________
कथम् : इत्याह?
यस्मात्तस्याप्यदस्तुल्यं विशिष्टफलसाधकम् । भावहेतुं समाश्रित्य ननु न्यायान्निदर्शितम्
यस्मात् तस्यापि परस्यापि एतत् - अस्थानपक्षपातापादनम्, तुल्यं, विशिष्टफलसाधकं विजातीयकपालादिक्षणजनन स्वभावम् भावहेतुं घटादिकं समाश्रित्य, ननु- निश्चितम् न्यायाद् निदर्शितम्- तुल्ययोग-क्षेमतयोपदर्शितम् । एतदुक्तं भवति - अस्थानपक्षपातित्वं यदि दण्डादिनाऽनश्वरस्वभावस्यैव घटस्योत्पादितत्वाद् नश्वरस्वभावस्य तस्य मुद्रादिनैव जनितस्वाद् घटमात्रे दण्डादिनां व्यभिचारित्वम्, तदा तवापि तस्य दण्डादिनाऽसमानक्षणाजनन स्वभावस्यैवोत्पादितत्वाEaterस्य तस्यान्यत एवोत्पत्तेस्तुल्यम् । अथ तत्रान्येन तज्जननस्वभावतैव कृतेत्यदोषः, तदा ममापि तन्निवृत्तिस्वभावतैव कृतेत्यदोष इति । एवं 'स्वकार्यकारित्वमेव मुद्गरादेर्न तु स्वकारित्वम्' इत्ययमपि परिहारस्तुल्य इत्यादि सूक्ष्मधियाSभ्यूहनीयम् ।। १० ।।
इत्थं चान्यदप्यत्र दूषणं न युक्तमित्याह---
एवं च व्यर्थमेवेह व्यतिरिक्तादिचिन्तनम् । नाश्यमाश्रितस्य नाशस्य क्रियते यद्विचक्षणैः
एवं च नाश्यं घटादिकमाश्रित्य नाशस्य विचक्षणैर्व्यतिरिक्तादिचिन्तनं यत् क्रियते, तदपीह - नाश्यविचारे, व्यर्थम्, भावतुल्यत्वात् तथाहि परेषामिदमाकूतं यदू- नाशो नाश्यादतिरिच्यते, नवा ? अन्त्ये भाव एव नाशः, स च सहेतुक
Jain Educationtional
For Private & Personal Use Only
www.jainelibrary.org