________________
शास्त्रवार्तासमुच्चयः । ॥१९१॥
Jain Education Inter
sratथाया मुद्रादिना तत्सामर्थ्यविघातं विना वक्तुमशक्यत्वात् अन्यथा तवापि समर्थक्षणान्तरजननस्वभावस्य कारणपरम्परायातस्यानपायात् स्वहेतुतोऽसमर्थजनन स्वभावस्यैव तस्योत्पत्तौ च प्रथमत एव संतत्युच्छेदप्रसङ्गात् ।
अथ स्वत एव निवर्तमान घटक्षणजननी शक्तिः, प्रवर्तमाना वा कपालक्षणजननी शक्तिरवर्जनीयसंनिधिकं मुङ्गरादिकं नापेक्षतइति चेत् । साधु युद्धं बुद्धदर्शनम्, येनैवं नियतान्वयव्यतिरेकदर्शनावगणनादग्न्यादौ पाकाद्यर्थिनामपि नियमतः प्रवृत्तिमपोहितुं व्यवसितोऽसि । तस्माद् मुद्गरादिना घटसामर्थ्याच्याहतात्रयं तर्कः - अन्त्यघटक्षणो यद्यव्याहतघटजननस्वभावः | स्यात् समानक्षणोपहितः स्यादिति । अथ घटाकुर्वद्रूपत्वादेवान्त्यघटक्षणो घटं न कुरुते, कपालकुर्वद्रूपत्वात्तु कपालं कुरुत इति चेत् । तथापि मुङ्गरादिसंनिधावेव तत्कुर्वद्रूपमिति "तद्धेतु०" इति न्यायात् स्थिरोऽपि तत्संनिहित एवं कपालादिजननस्वभावो नश्वरस्वभावो वा घटोऽस्त्विति किमनुपपन्नम् १ ॥ ८ ॥
एवं चान्यदप्य समीक्षिताभिधानं परस्येति दर्शयन्नाह -
1
अस्थानपक्षपातश्च हेतोरनुपकारिणः । अपेक्षायां नियुङ्क्ते यत्कार्यमेतद् वृथोदितम् ॥९॥ अस्थान पक्षपातश्च - अयमयुक्तापेक्षात्मा, हेतो:- घटादिजनकस्य, यदनुपकारिणो मुद्गरादेरपेक्षायां नियुक्ते कार्यम्घटादि, तदपेक्षस्यैव नश्वरत्वाभ्युपगमात् । तदुक्तम्- "हेतवश्चानुपकार्यपेक्षायां नियुञ्जानाः स्वकार्यम्, आत्मनोऽस्थान पक्षपातित्वमाविष्कुर्युः" इति । एतद् थोदितं शुभगुप्तादिना ॥ ९॥
For Private & Personal Use Only
PARA
सटीकः । स्तबकः ।
॥ ६ ॥
।।१९१।।
Fast www.jainelibrary.org