________________
क्षणोत्पत्तिर्हि उपकारः, स्वविसभागक्षणोत्पत्तिश्च विरोधः, स्वोत्पत्तिरेव च सहकार इति ॥ ६ ॥
तथैव चोक्तमन्यत्सहकारिकृतो हेतोर्विशेषो नास्ति यद्यपि । फलस्य तु विशेषोऽस्ति तत्कृतातिशयाप्तितः
सहकारिकृतो हेतोः-घटादेः, विशेषो नास्ति, यद्यपि-समानकालत्वाद् द्वयोः, तथापि फलस्य तु-कलापादेः, तत्कृतातिशयाप्तितः-सहकारिकृतातिशयाप्तेविलक्षणक्षणाभिन्नायाः, विशेषोऽस्ति विद्यत एव, तदपेक्षयैव घटक्षण-मुद्गरक्षणयोः सहकार्यसहकारिभावादिव्यवहारात् ॥७॥
इदं चोक्तं यथोक्तस्वभावाभ्युपगमं विना न निर्वहेदित्याहन चास्यातत्स्वभावत्वे स फलस्यापि युज्यते । सभागक्षणजन्माप्तस्तथाविधतदन्यवत्॥८॥
न चास्य हेतोः- घटादेः, अतत्स्वभावत्वे- मुद्गरादिकमवाप्य कपालादिजननास्वभावत्वे, सः- विशेषो विलक्षणक्षणात्मा, फलस्यापि-कपालादेः, युज्यते । कुतः? इत्याह-सभागक्षणजन्माप्तेः-घटादिक्षणोत्पत्तिप्रसङ्गात् । किंवत् ? इत्याहतथाविधतदन्यवत्- घटादिजननस्वभाववद्धटादिवत् । यद्यप्यत्र 'अन्त्यघटक्षणः कपालादिजननास्वभावः स्याद् घटक्षणजनकः | स्यात्' इति नापादनं संभवति, पटादौ व्यभिचारात् । तथाप्यन्यक्षणजननहेत्वभावादर्थात् तदापत्तिः; असमर्थत्वादन्त्यघटक्षणो नाग्रिमसमानक्षणारम्भक इति मुद्गरायभावे समानक्षणान्तरोत्पादकापरसमर्थजननं, तत्संनिधाने त्वसमर्थक्षणान्तरजननमिति
Diesed
For Private & Personal Use Only
Adiww.jainelibrary.org
Jain Education in
मा