SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः 3 तथास्वभाव एवासौ स्वहेतोरेव जायते । सहकारिणमासाद्य यस्तथाविधकार्यकृत् ॥४॥ सटीकः । स्तबकः। ॥१९॥ तथास्वभाव एवासौ घटादिः, स्वहेतोरेव सकाशाज्जायते, यः सहकारिणं- मुद्रादिकम् , आसाद्य, तथाविधकार्यहि कृत्-विजातीयकपालादिकार्यकारी । तदपेक्षस्यैव हि घटक्षणस्य समानक्षणान्तरोत्पादनासमर्था-ऽसमर्थतरा-ऽसमर्थतमादिक्षणान्तरोत्पादनप्रक्रमेण घटसंततिनिवृत्तौ कपालादिक्षणोत्पत्तरभ्युपगमात् ॥ ४ ॥ उपचयमाह-- न पुनः क्रियते किञ्चित्तेनास्य सहकारिणा । समानकालभावित्वात्तथाचोक्तमिदं तव ॥५॥ न पुनस्तेन मुद्गरादिना सहकारिणा, तस्य- घटस्य, क्रियते किश्चित्- अतिशयाधानम् । कुतः? इत्याह-द्वयोः सहकार्य-सहकारिणोः, समानकालभावित्वात्- एककालोत्पत्तिकत्वात् , अतिशयस्य च सहकार्यगतस्य तत्स्वरूपत्वात् , कार्यकारणभावस्य च पौर्वापर्यनियतत्वात् । संवादमाह- तथाचोक्तमिदं- वक्ष्यमाणम् , तब स्वशास्त्रे ॥५॥ 'उपकारी विरोधी च सहकारी च यो मतः। प्रबन्धापेक्षया सर्वो नैककालेकथंचन ॥६॥' उपकारी-क्षीरादिर्वालादेः, विरोधी- नकुलादिः सर्पादेः, सहकारी- मुद्रादिः कपालादेः, यो मतः- इष्टः, स प्रबन्धापेक्षया- सन्तानापेक्षया, सर्वेः- निरवशेषः, नैककाले कथंचन, बालादिसत्ताया एवं बालाद्युपकारकत्वात् । स्वसभाग- १९०॥ arela Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy