________________
लादिक्षणोत्पत्तावेव भ्रान्तिकारणविगमेन प्रत्यक्षनिबन्धनतनिश्चयोत्पादा , विषयरूपदर्शनेऽप्यतत्कारिपदार्थसाधर्म्यविप्रलब्धस्य प्राकारणशक्त्यविवेचनेऽपि विकारदर्शनानन्तरं तनिश्चयवदिति । अत्रोत्तरम्- तद् न युक्तिमत्- एतदुक्तं न युक्तम् ।।२।।
कुतः ? इत्याहहेतुं प्रतीत्य यदसौ तथानश्वर इष्यते। यथैव भवतो हेतुर्विशिष्टफलसाधकः॥३॥
हेतु- मुद्रादिकम् , प्रात्य, यदसौ- भावः, तथानश्वरः- प्रायोगिकादिनाशापेक्षया नश्वरस्वभावः, इष्यते । निदर्शनमाह- यथैव भवतः- सुगतसुतस्य, हेतुः- घटादिः, विशिष्टफलसाधका- मुद्रादिकं प्रतीत्य विजातीयकपालादिक्षणजननस्वभाव इष्टः । एतेन
"स्वभावोऽपि स तस्येत्यं येनापेक्ष्य निवर्त्यते । विरोधिनं यथान्येषां प्रवाहो मुद्रादिकम् ॥१॥"
इति समाधान न युक्तम् , यतो नास्माभिर्विशरारुक्षणव्यतिरिक्तोऽपरः प्रवाहोऽभ्युपगम्यते, यः स्वनिवृत्तावकिश्चित्करं मुद्गरादिकमपेक्षते, किन्तु परस्परव्यतिरिक्ताः पूर्वापरक्षणा एव, ते च स्वरसत एव विरुध्यन्त इति न कचिदकिश्चित्करापेक्षा निवृत्तिः' इत्युक्तावपि न क्षतिः, विलक्षणहेतुं प्रतीत्य नश्वरखभावस्य तस्य तं प्रतीत्य विलक्षणजननस्वभावत्वाभ्युपगमसमसमाधानत्वात् ॥ ३॥
एतदेव भावयन्नाह
Jain Education Internet
For Private & Personel Use Only
Kajainelibrary.org