________________
शाख़वार्ता - समुचयः
॥ १८९॥
तत्र प्रथमहेतुं परीक्षितुं तदाशयमाविष्करोति
हेतोः स्यान्नश्वरो भावोऽनश्वरो वा विकल्पयेत् । नाशहेतोरयोगित्वमुच्यते तन्न युक्तिमत् । 'हेतोः सकाशाद् नश्वरो भावः स्यात्, अनश्वरो वा ?" इति विकल्पयत् - विकल्पयुगलमुत्थापयत्, नाशहेतोरयोगित्वं क्षणिकत्वप्रसाधकमुच्यते परेण । आद्ये, स्वतो नश्वरे नाशहेतूनामकिश्चित्करत्वात्; अन्त्येऽपि स्वभावस्य पराकर्तुमशक्यत्वेन तथात्वात् । न चोत्पादेऽप्ययं पर्यनुयोगः- स्वभावतो गुत्पत्तिस्वभाव उत्पत्तिहेतुव्यापारवैयर्थ्यात्, अनुत्पत्तिस्वभावस्य च वक्तुमशक्यत्वादिति वाच्यम्; उत्पत्तिस्वभाव इत्यस्याऽभूत्वा भवनलक्षणोत्पत्तिरेव स्वभावो यस्येत्यर्थेऽभूतस्य भवन योगेनोक्तदोषानिवृत्तावपि, उत्पत्तौ सत्तायां स्वभाव आभिमुख्यलक्षणो यस्य नियतहेत्वन्तरभाविन इत्यर्थे दोषाभावात्, तथैव तद्व्यपदेशोपपत्तेः द्वितीयविकल्पस्य चानभ्युपगमादेव, अनुत्पत्तिस्वभावस्य सर्वसामर्थ्याभावलक्षणस्यानुत्पाद्यत्वादेव | न त्पत्तिहेतवोऽभावं भावीकुर्वन्तीत्यभ्युपगम्यते, 'असदुत्पद्यते' इत्यस्य 'उत्पद्यमानं प्राग् नास्ति' इत्येवार्थात् । माग्नास्तितायाँ चन भावाश्रयाणां विकल्पानां शशविषाण इव तीक्ष्णतादिगोचराणां संभवः । न च 'भावधर्मत्वाविशेषाद् नाशवदुत्पत्तेरपि किं न निर्हेतुकत्वम् ?” इति शङ्कनीयम्, उदयापवर्गिणो भावाद् व्यतिरिक्तस्य नाशस्याभावात् तस्य च स्वहेतोरेव तथाभूतस्योत्पन्नत्वेन तद्धर्मस्यानिमित्तत्वाभावात्; केवलं तमस्य स्वभावं न विवेचयति मन्दधीः, दर्शनपाटवाभावात्, विसदृशकपा
1
"
१ मुद्रिते 'यन्' पाठः ।
Jain Education International
For Private & Personal Use Only
सटीकः । स्तबकः ।
॥ ६ ॥
॥ १८९ ॥
www.jainelibrary.org