________________
॥ अहम् ।। अथ षष्ठः स्तबकः।
दृष्यद्यन्नखदर्पणप्रतिफलद्वक्त्रेण वृत्रदुहा शोभा कापि दशावतारसुगमा लब्धाऽनुजस्पर्धिनी ।
मुक्तिद्वारकपाटपाटनपटू दौर्गत्यदुःखच्छिदौ तावंही शरणं भजे भगवतो वीरस्य विश्वेशितुः ॥ १॥ यत्स्नात्रनीरेण नरायणस्य जरा भटानां न पराभवाय । जाग्रत्प्रभावं भगवन्तमेतं शङ्केश्वराधीश्वरमाश्रयामः ॥२॥
'सर्वमेतेन' इत्याद्यतिदिष्टमभिधित्सुराहयच्चोक्तं पूर्वमत्रैव क्षणिकत्वप्रसाधकम् । नाशहेतोरयोगादि तदिदानीं परीक्ष्यते ॥१॥
यच्च पूर्वमत्रैव- सुगतसुतवार्तायामेव, नाशहेतोरयोगादि क्षणिकत्वप्रसाधकं “तैयाहुः क्षणिकं सर्वम्" इत्यादिकारिकयोक्तं पूर्वपक्षिणा, तदिदानीमवसरमाप्ततया परीक्ष्यते ॥१॥
चतुर्थस्तबकेऽन्तिमा कारिका। २ चतुर्थे स्तबके कारिका २ ।
For Private Personal Use Only
www.jainelibrary.org
Join Education Internationa