SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। सटाकः। स्तबकः। न चासदेव- तुच्छमेव, तद्धतः, शशविषाणादेरपि तत्वमसङ्गात् । अथ सदिवासदपि किश्चिदेव कस्यचिजनकम् , एवं चानाधविद्याख्यवासनैव क्लिष्टचित्तजननी, निवर्तते च साशयतत्वज्ञानात , असतो ज्ञाननिवळत्वनियमात् , असत्यरजताकारे शुक्तितत्त्वज्ञाननिवर्त्यत्वदर्शनात् । अत एव प्रकाशमात्रमपि संसारदशायामविद्याशक्तिमावल्यादन्यथा प्रकाशते, तदाह धर्मोत्तरः- "तस्मादविद्याशक्तियुक्तं ज्ञानमसत्यरूपमादर्शयति, इत्यविद्यावशात् प्रकाशत इत्युच्यते" इत्यनवद्यमिति चेत् । न, अविद्याया इव तनिवृत्तेरप्यसखे तमिरया मुक्तस्य पुनः संसारितापत्तेः, सत्त्वे च द्वैतापत्तेः, ज्ञानरूपत्वे च ज्ञानमात्रस्य सर्वदा सत्वेन सदा मुक्त्यापत्तेः। अस्तु तर्हि प्राच्यः क्लिष्टचित्तक्षण एवोत्तरक्लिष्टचित्तहेतुरित्यत्राह-न चापि बोधमात्रं तदिति तद्धेतुः, सदैव क्लिष्टतापत्तेः, मुक्तिप्राच्यक्षणस्यापि क्लिष्टत्वेनोत्तरक्लिष्टक्षणजननवभावत्वात् , इति हेतोः, मुक्तिन युज्यते भवताम् । अथ संसारोपान्त्यक्षणेनोत्तरक्लिष्टचित्तक्षणजननासमर्थस्यैवान्त्यक्षणस्य जननाद् न दोष इति चेत् । कुत एतत् । स्वभावादिति चेत् । न, मुक्तः स्वभावत उपपत्ती तदर्थ प्रवृश्यनुपपत्तेः । भ्रमात् प्रवृत्तौ च तदर्थशास्त्रप्रणयनानुपपत्तेः । तस्मात् काल्पिनिकीयं मुक्तिः, न तु परमानन्दादिमयीति न किश्चिदेतत् ॥ ३७॥ इदमेवाह तन्निवृत्या- अविद्यानिवृत्तिनिवृश्या। Jain Education International For Private & Personal Use Only Hww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy