________________
ननु स्वभावादपि किश्चिदेव नील्यादिवत् क्लिष्ट, किञ्चिदेव च प्रदीपादिवदलिष्टं चित्तं भविष्यतीत्याशङ्कते| असत्यपि च या बाह्ये ग्राह्ये ग्राहकलक्षणे । द्विचन्द्रभ्रान्तिवद् भ्रान्तिरियं नःक्लिष्टतेति चेत्॥
असत्यपि बाह्ये ग्राह्ये ग्राहकलक्षणे च परस्परापेक्षाप्रकल्पिता ग्राह्य-ग्राहक-भावावगाहिनी 'नीलमहं वोधि' इत्यांद्याकारा या द्विचन्द्रभ्रान्तिवद् भ्रान्तिः, इयं- अनुभवसिद्धा, नः- अस्माकं, क्लिष्टता । अत्रोत्तरम् - इति चेत्- यद्येवमुपगम्यते ॥३५॥ अस्त्वेतत्किन्तु तहेतुभिन्नहेत्वन्तरोद्भवा।इयं स्यात्तिमिराभावे न हीन्दुहृयदर्शनम्॥३६॥ ___अस्त्वेतदापाततः, किन्त्वियं-क्लिष्टता, तद्धेतुभिन्नहेत्वन्तरोद्भवा- क्लिष्टचित्तहेत्वतिरिक्तहेत्वपेक्षा स्यात् , हि-यतः, तिमिराभाव इन्दुद्वयदर्शनं न दृष्टम् , शङ्खपीतिमादिदर्शनहेतुकामलाद्युपलक्षणमेतत् । इत्थं च यथा तिमिरादि एकचन्द्रादिवोघहेतुभ्योऽधिकम् , तथा सत्यतो बोधहेतोर्योधमात्रादधिकेन क्लिष्टबोधहेतुना भवितव्यमित्यैदंपर्यम् ॥ ३६॥
ननु द्विचन्द्रादिज्ञान उपप्लववासनावत् सकर्मकत्वभ्रान्तावप्यनादिवासना हेतुभूतोक्तैवेति चेत् । सा किं सती, असती वा ! । आये द्वैतापत्तिः । अन्त्ये त्वाहनचासदेव तद्धेतुर्बोधमा–नचापि तत् ।सदैव क्लिष्टतापत्तेरिति मुक्तिर्न युज्यते ॥३॥
मुद्रितमूलादर्श खोपज्ञटीकापुस्तके च 'ग्राह्यमा' इति पाठः । २ ख.ग.प.च, 'खाका'। ३ ज. 'त्यको'।
For Private & Personal Use Only
JainEducation intehaation
www.jainelibrary.org