________________
शास्त्रवार्ता
समुच्चयः । ॥ १८६ ॥
Jain Education International
मुक्तौ च तस्य क्लिष्टतापादकस्य, भेदेन पृथग्भावेन, भावः स्यात् - स्वरूपाविर्भावलक्षणा शुद्धिः स्यात् । किंवत् ? इत्याह- पटशुद्धिवत् यथा पटादेनल्यादिद्रव्यसंसर्गापगमे प्राक्तनस्वरूपाविर्भावस्तद्वदित्यर्थः । यत एवम् ततो बाह्यार्थतासिद्धि:, अनिष्टा - भवदनभिमता, संप्रसज्यते । तेनाक्लिष्टत्वं क्लेशराहित्यं क्लिष्टभिन्नत्वं वोच्यताम्, नोभयथापि विशेषः, प्रतियोगिनस्तदवच्छेदकस्य वा पृथग्भावावश्यकत्वेऽद्वैतासाम्राज्यात् । 'बाह्यार्थता' इत्यत्र तलः 'तत्स्वभावत्वम्' इत्यादाविव प्रक्रत्यर्थमात्रे निरूढलक्षणायामपि तस्याः प्रयोगविशेषनियन्त्रितत्वादत्रा संभवत्प्रसरत्वेऽपि 'सत्पदप्ररूपणता' इत्यादाविवार्षत्वाद् न दोषः । वस्तुतो यथाश्रुतार्थेऽपि नानुपपत्तिः, बाह्यत्वसमानाधिकरणार्थतापादनेऽर्थताया बाह्यत्वसामानाधिकरण्यमात्रस्य फलत आपादनादिति ध्येयम् ॥ ३३ ॥
ननु पटादेः क्लिष्टतावद् न चित्तक्लिष्टता येन तज्जनकवाह्यार्थसिद्धिः स्यात्, किन्त्वन्यथा, इत्याशङ्कते - प्रकृत्यैव तथाभूतं तदेव क्लिष्टतेति चेत् । तदन्यूनातिरिक्तत्वे न मुक्तिर्विचिन्त्यताम् ॥३४॥ प्रकृत्यैव - स्वभावेनैव तथाभूतं क्लिष्टं चित्तं, तदेव क्लिष्टता नातिरिक्तेति न दोषः । अत्रोत्तरम् - तदन्यूनातिरिक्तत्वेवोधाद् न्यूनस्याधिकस्य वाऽभावे चित्तमात्राच्चित्तभावे सति, केन मुक्तिः, क्लिष्टस्य चित्तस्य स्वभावतस्तथाभूतस्य प्रवाह विच्छेदायोगादिति भावः ॥ ३४ ॥
१ आवश्यक निर्युक्तौ पीठिकायां त्रयोदशी गाथा ।
For Private & Personal Use Only
सटीकः । स्तबकः । ॥ ५ ॥
॥ १८६॥
www.jainelibrary.org