________________
SIO
___कथमेतद् वृथा ? इत्याहरागादिक्लेशवर्गोयन्न विज्ञानात्पृथग्मतः। एकान्तैकस्वभावे चतस्मिन्कि केन वासितम्?३१
यद्- यस्मात् , रागादिक्लेशवर्गो विज्ञानात् पृथग- भिन्नः, न मतः, द्वैतापत्तेः। एकान्तकस्वभावे च तस्मिन्विज्ञाने, कि केन वासितम् , वासकाभावात् ॥ ३१ ॥
पर आहक्लिष्टं विज्ञानमेवासी, क्लिष्टता तत्र यहशात्। नील्यादिवदसौवस्तुतहदेव प्रसज्यते॥३२॥
असौ- रागादिक्लेशवर्गः, क्लिष्टं विज्ञानमेव न तु ततो भिन्नः। एवं चाक्लिष्टत्वं क्लिष्टभिन्नत्वं, न तु पृथग्भूतक्लेशादिराहित्यमिति न दोषः, अक्लिष्टस्य प्राप्यस्य सचाच नापवर्गप्रवृत्यनुपपत्तिरित्याशयः । अत्राह- तत्र- संसारिचित्ते, | यद्वशात् क्लिष्टता, नील्यादिवत्- नीलीद्रव्याद्युपरागात् पटादिक्लिष्टतावत् , असौ-चित्तक्लिष्टतापादकः, तद्वदेव-ज्ञानवदेव, वस्तु प्रसज्यते- पृथग वस्त्वापद्यते, क्लिष्टताया उभयजनितत्वादिति भावः ॥ ३२ ॥
तथा, मुक्तौ चतस्यभेदेनभावःस्यात्पटशुद्धिवत्। ततो बाह्यार्थतासिद्धिरनिष्टा संप्रसज्यते॥३३॥
Jain Education
For Private & Personel Use Only
www.jainelibrary.org