________________
शास्त्रवातासमुच्चयः। ॥१८५॥
दृष्टान्तमात्रतः सिद्धिस्तदत्यन्तविधर्मिणः। न च साध्यस्य यत्तेन शब्दमात्रमसावपि॥२८॥ सटीकः । दृष्टान्तमात्रा- परपरिभाषितात् 'आस्ते' 'शेते' इत्यादेस्तत्र तक्रियाकर्तुः, अत्यन्तविधर्मिणः- नानाधर्मानुविद्धात्,
स्तबकः। न च साध्यस्य- बोधमात्रस्य, सिद्धिः, यत् तेनासावपि- उक्तदृष्टान्तोऽपि, शब्दमात्रं- न तु लक्षणयुक्त इति यत् किश्चिदेतत ॥२८॥
- अत्रैव प्रधानदोषपाहकिञ्च विज्ञानमात्रत्वे न संसारा-पवर्गयोः। विशेषो विद्यते कश्चित्तथाचैतद् वृथोदितम् ॥२९॥
किञ्च, विज्ञानमात्रत्वे- ज्ञानाद्वयत्वे जगतोऽभ्युपगम्यमाने, संसारा-उपवर्गयोर्विशेषः कश्चिद् न विद्यते, ज्ञानमात्रस्योभयदशयोरविशेषात् , अधिकस्यापर्वर्ग प्राप्यस्याभावात् , भावे वाऽद्वैतव्याघातात् । तथा चैतद् वृथोदितं भवतामागमे ॥२९॥
किम् ? इत्याहचित्तमेव हि संसारो रागादिक्लेशवासितम्।तदेवतैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥३०॥
रागादिक्लेशवासितं चित्तमेव हि संसारः, तैर्विनिर्मुक्तं च तदेव- चित्तमेव, ‘भवान्तः' इति कथ्यते- 'मोक्ष' इत्युपदिश्यत इति ॥ ३०॥ 1 मात्रतः' इति पाठो यदि स्यात्, युक्ततरः स्यात्, मूलपाठानुरोधात् ।।
॥१८५||
Jain Educat an interne
For Private Personal Use Only
jainelibrary.org