________________
नायं नियमो यत्- 'भ्रान्तादभ्रान्तव्यवस्थितिन' इति, यतस्तैमिरिकादीनां-तिमिरादिदोषवताम् , तज्जनितद्विचन्द्रादिज्ञानाद् भ्रान्तादपि, अक्षादौ-तिमिराद्यक्षदोषादौ, अभ्रान्तव्यवस्थितिदृष्टेति चेत् । अत्रोत्तरम्-न तत्- नैतदेवम् ।। २५ ।।
कथम् ? इत्याहनाक्षादिदोषविज्ञानं तदन्यभ्रान्तिवद्यतः।भ्रान्तं तस्य तथाभावे भ्रान्तस्याभ्रान्तता भवेत् ॥
यतः- यस्मात् , तदन्यभ्रान्तिवत्- द्विचन्द्रादिभ्रमवत् , अक्षादिदोषविज्ञानं- तिमिरादिदोषविज्ञानम् , न भ्रान्तंकिन्त्वभ्रान्तमेव, कार्यलिङ्गकानुमानादिप्रभवत्वात् । विपक्षे बाधकमाह- तस्य- अक्षादिदोषविज्ञानस्य, तथाभावे- भ्रान्तत्वे, भावतोऽक्षादीनां दोषानुपप्लुतत्वात् , भ्रान्तस्य-द्विचन्द्रादिज्ञानस्य, अभ्रान्तता भवेत्-निर्दोषहेतुजत्वादिति भावः ॥२६॥
दोषान्तरमाहन च प्रकाशमानं तुलोके क्वचिदकर्मकम्। दीपादौ युज्यते न्यायादतश्चैतदपार्थकम् ॥२७॥
न च प्रकाशमात्रं तु- सर्वथैकस्वभावमेव, लोके, कचित- अनवलम्बनदीपादौ, न्यायाद् रूपं युज्यते, प्रकाशकत्वेनोपलब्धेः । अतश्चैतत्- विज्ञानाकर्मकत्वकल्पनम् , अपार्थकम् - निष्षयोजनम् ॥ २७ ॥
'यथास्ते' इत्यादावाह. अत्रैव स्तबके कारिका २० ।
।
DEARJIGHeise
Jain Education in
For Private Personal Use Only
ww.jainelibrary.org