________________
शास्त्रवार्तासमुच्चयः । ॥ १८४॥
"
व्यवस्थितौ तत्वस्य तत्तथाभावस्य ध्रुवं निश्चितम् तद्- विज्ञानम्, तथाभावप्रकाशक- व्यवस्थाप्यज्ञानस्याकर्मकप्रकाशमात्रत्वद्योतकम्, यतः- यस्मात् ; ततोऽस्य- ज्ञानस्य, अकर्मकत्वं कथं भवेत्, सविषयकत्वस्यैव सकर्मकत्वात् ? । न हि शाब्दं सकर्मकत्वमत्र विचार्यत इति ॥ २३ ॥
पराभिप्रायमाशङ्कय परिहरन्नाह
व्यवस्थापकमस्यैवं भ्रान्तं चैतत्तु भावतः । तथेत्यभ्रान्तमत्रापि ननु मानं न विद्यते ॥ २४ ॥
अस्य - व्यवस्थाप्यस्य, एवं व्यवस्थापकम् - प्रकाशमात्रत्वद्योतकं ज्ञानान्तरमस्ति, एतत्तु भावतः - परमार्थतः, तथेतिसविषयकमिति भ्रान्तम् । व्यवस्थाप्यं तु स्वतःस्फुरद्रूपत्वाद् ग्राह्य ग्राहकभावविनिर्मुक्तत्वात् प्रमाणम्, स्वाविषयकत्वेऽपि परानपेक्षस्फूर्तिकत्वेन स्वसंविदितत्वाव्याहतेः । ज्ञानाकारं वा तद् नीलाद्याकारं वेति चेत् । नीलादिस्वलक्षणाकारमेव, न तु सामान्याकारमिति । नन्वेवमत्रापि - अकर्मकप्रकाशमात्रत्वेऽपि अभ्रान्तं मानं न विद्यते, सविषयकत्वेनास्यापि भ्रान्तत्वादित्यर्थः ॥ २४ ॥
यदि नामैवं ततः किम् ? इत्याहभ्रान्ताच्चाभ्रान्तिरूपा न युक्तियुक्ता व्यवस्थितिः । दृष्टा तैमिरिकादीनामक्षादाविति चेन्न तत् भ्रान्ताच्च - व्यवस्थापकात् अभ्रान्तरूपा व्यवस्थितिरधिकृता, न युक्तियुक्ता न न्यायोपपन्ना । पर आह- ननु
॥ १८४ ॥
Jain Education tional
"
सटीकः । स्तबकः ।
114 11
For Private & Personal Use Only
www.jainelibrary.org