SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ मुक्त्यभावे च सर्वैव ननु चिन्ता निरर्थिका । भावेऽपि सर्वदा तस्याः सम्यगेतद्विचिन्त्यताम् ॥ मुक्त्यभावे च तपस्विनां सर्वैव चिन्ता- तत्त्वविचारणा, निरर्थिका, सर्वस्या एव तस्यास्तदेकपरमप्रयोजनत्वात् । बोधरूपायास्तस्या मुक्तेः सर्वदा भावेऽपि निरर्थिका चिन्ता, साध्यस्य सिद्धत्वात् । एतत् सम्यग् विचिन्त्यताम् || ३८ ॥ उपसंहरन्नाह— विज्ञानमात्रवादोऽयं नेत्थं युक्त्योपपद्यते । प्राज्ञस्यापि निवेशो न तस्मादत्रापि युज्यते ॥ ३९ ॥ 'विज्ञानमात्रवादो यद् - यस्मात् इत्थम् उक्तरीत्या युक्त्या - न्यायेन विचार्यमाणः, नोपपद्यतेः, तस्मादत्रापिविज्ञानवादेऽपि, प्राज्ञस्यापि कल्पनानिपुणस्यापि पुंसः, निवेश:- कदाग्रहः, न युज्यते ।। ३९ ।। Jain Education Intemational हंसः किं सद्मपद्मं श्रयति परिगलत्पर्णमर्णः पिवेद् वा चाण्डालानां पिपासाकुलितमतिरपि श्रोत्रियः किं कदाचित् ? । दुष्टानां हन्त ! गोष्ठीमनुसरति रसात् सज्जनः किं गतार्थी त्याज्यस्तज्जैनतर्कैरयमिह निहतो विज्ञ ! विज्ञप्तिवादः ॥ १ ॥ अभिप्रायः सूरेरिह हि गहनो दर्शनततिर्निरस्या दुर्धर्षा निजमतसमाधानविधिना । तथाप्यन्तः श्रीमन्नयविजयविज्ञांहिभजने न भग्ना चेद् भक्तिर्न नियतमसाध्यं किमपि मे ॥ २ ॥ १ मुद्रितमूलपुस्तके खोपटीका- मूलयोन 'स्थाभिनि' इति पाठः । २ ख. ग. घ. च. 'ज्ञा' । For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy