________________
शाखवातासमुच्चयः। ॥१८३॥
समुच्चय
ग्राख तथा च- ग्राह्य ग्राहक यज्ञानाद् बहि
सटीकः । स्तबकः। ॥५ ॥
SE
प्रकाशकस्वभावं हि- गगनतलवृत्त्यालोककल्पम् , मतम् - इष्टम् , तत्त्वतः-परमार्थतः, अकर्मकम्-विचाराक्षमत्वेन ग्राह्यस्याभावात् तदपेक्षाप्रकल्पितग्राहकत्वाभावात् कर्तृ-कर्म-भावोपरागरहितम् , तदुक्तम् - "परस्परापेक्षया तयोर्व्यवस्थानात" इति । तथा च-- ग्राह्य-ग्राहकाकारासंस्पर्श च, एतत्- विज्ञानम् , स्वयमेव- स्वसंविदितमेव, प्रकाशते, तदुक्तम्
"नील-पीतादि यज्ज्ञानाद् बहिर्वदवभासते । तद् न सत्यमतो नास्ति विज्ञानं तवतो बहिः॥१॥
तदपेक्षा च संवित्तेर्मता या कर्तृरूपता । साप्यतत्त्वमतः संविदद्वयेति विभाव्यते ॥ २ ॥” इति ॥ १९ ॥ नन्वकर्मको न कश्चित् प्रयोगो दृष्ट इत्यत आहयथास्ते शेत इत्यादौ विना कर्म स एव हि।तथोच्यते जगत्यस्मिंस्तथा ज्ञानमपीष्यताम् ॥
यथा 'आस्ते' 'शेते' इत्यादौ प्रयोगे, विना कर्म, स एव- आसनादिक्रियोपरक्तो देवदत्तः, तथा- कर्मानुपरागेण, उच्यते, न तु 'कटं करोति' इत्यादाविव कर्मोपरागेण, उपवेशनादिक्रियाणामकर्मकत्वात् , तथा अस्मिन्- जगति, ज्ञानमप्यकर्मकमिष्यताम् , क्रियात्वात् । न चैवं तद्वदेवाकर्मकप्रयोगप्रसङ्गः, अप्रयोगादेवाप्रयोगात् , शब्दानां विकल्पयोनित्वेन वासनासामर्थ्यात् कर्मोपसंदानेनैव 'जानाति' इत्यादिप्रयोगात् ॥२०॥ ___ अत्रोत्तरम्
लोके तस्याकर्मकत्वेन प्रयोगाभावादेवाकर्मकत्वेनाप्रयुज्यमानत्वादिति हृदयम् ।
॥१८३।।
Jain Education in
For Private Personel Use Only
Asalww.jainelibrary.org