________________
वस्य तथात्वासंभवात् , ज्ञानस्यैवोपलम्भयोग्यस्य तथात्वसंभवात् । ज्ञानाकारस्य बाह्यत्वेनाभिमतस्य दृश्यत्वाद् विवेचनोपपतिरिति चेत् । तद्विवेचनात् तस्यैवानुपपत्तिः, अन्यस्य वा। आये, ज्ञानस्य नीलाद्याकारत्वायोगाचित्रैकरूपताव्याघातः । द्वितीये, अतिप्रसङ्गः, अन्यविवेचनादन्यानुपपत्तौ त्रैलोक्यस्याप्यभावप्रसङ्गात् ।।
किच, बाह्यस्य विवेचनं ज्ञानम्, इति कथं तेन तदसत्त्वव्यवस्था, अतिप्रसङ्गात । भ्रान्तं तदिति चेत् । न, तस्याप्रमाणत्वात् । भ्रान्तिरप्यर्थसंबन्धतः प्रमेति चेत् । न, असता सह संबन्धाभावात् । असंवन्धेऽपि दोषमहिना तज्ज्ञानसंभवाद् न दोष इति चेत् । तथापि भ्रान्तं ज्ञानं भ्रान्तत्वेन प्रतिसंधीयमानमर्थासत्त्वव्यवस्थापकम् , अन्यथा शुक्तौ रजतज्ञानं प्रागेव रजतासत्त्वं व्यवस्थापयेत् । तत्त्वप्रतिसंधानं चाऽसदाकारत्वप्रतिसंधानेन, ततश्च तदसत्त्वव्यवस्थेत्यन्योन्याश्रयः । किञ्च, नीलादेरवयविनोऽवयविबुद्धचा विवेच्यमानस्यासत्त्वम् , अवयवबुद्धया वा?। नाद्यः, तबुद्धथा तत्सत्त्वस्यैव ग्रहात् । न द्वितीयः, अवयवबुद्धेरवयविनः सत्त्वं विधातुं निषेधुं वाऽसमर्थत्वात् । यापि नीलादेरवयविभेदा-ऽभेदाभ्यामनुपपत्तिरुक्ता; साप्ययुक्ता, कथञ्चिद्वैरूप्यस्वीकारे दोषाभावात् ; अन्यथा तवाप्येतद्दोपानतिवृत्तेः, एकज्ञानस्य नानाकारतादाम्ये प्रत्याकारं भेदप्रसङ्गात् , नानाकाराणां चैकज्ञानतादाम्ये नानात्वव्याहतेः । सुखादीनां ज्ञानात्मकत्वं तु प्रागेव पराहतमिति नेदानी प्रयास इति ॥१८॥
परः स्वाभिप्रायमाहप्रकाशैकस्वभावं हि विज्ञानं तत्त्वतो मतम् । अकर्मकं तथा चैतत्स्वयमेव प्रकाशते॥१९॥
For Private Personal Use Only
MEwww.jainelibrary.org
Jain Education Interational