________________
शास्त्रवाती
समुच्चयः । ।।१८२ ।।
Jain Education
देकस्मिन्नप्याकारे प्रतिभासमाने सर्वमाभाति, न वा किश्चिदपि इत्यशक्यो विवेकतो दर्शने नीलादिप्रतिभास इति । न च चित्रताया बहिरर्थधर्मता, नीलादीनामवयविभेदाभेदाभ्यामनुपपत्तेः । सुखादीनां च ज्ञानाभिन्नहेतुजत्वादपि ज्ञानात्मकत्वम्' इति । तदसत्, बाह्यास्यापि द्रव्यस्य चित्रपर्यायात्मकस्याशक्यविवेचनत्वेन चित्रैकरूपताया दुरपह्नवत्वात्, अन्तर्विज्ञानात दाकाराणामिव बहिष्पुद्गलादे रूपादीनामशक्यविवेचनत्वात् । मणिसमूहे 'पद्मरागोऽयम्' 'चन्द्रकान्तोऽयम्' इत्यादिपृथग्बुद्धिरूपं विवेचनमस्त्येवेति चेत् । नीलाद्याकारैकज्ञानेऽपि 'नीलाकारोऽयम्' 'पीताकारोऽयम्' इति विवेचनं किं न प्रतीतम् १ | चित्रप्रतिभासकाले नेदृग् विवेचनम्, पश्चातु नीलाद्याभासानि ज्ञानान्तराण्यविद्योदयाद् विवेकेन प्रतीयन्त इति चेत् । तर्हि मणिराशिप्रतिभासकाले पद्मरागादिविवेचनमपि नास्त्येव, पश्चात्तु तत्प्रतीतिरविद्योदयादिति शक्यं वक्तुम् । मणि शर्देश भेदेन विभजनं विवेचनमिति चेत् । न, एकमण्याकारेषु तदभावात् । मणेरेकस्य खण्डने तदाकारेषु देशविभजनमस्त्येवेति चेत् । ज्ञानस्याप्येकस्य बुद्ध्या खण्डने तदस्त्येव । बुद्ध्यन्तराण्येव तत्खण्डने तानीति चेत् । पराण्येव मणिखण्डने मणिखण्डद्रव्याणि तानीति समानम् । चित्रज्ञानं विवेचयन्नर्थे पततीति तदविवेचनमिति चेत् । एकत्वपरिणतद्रव्याकारान् विवेचयन् नानाद्रव्याकारेषु पततीति तदविवेचनं तुल्यम् । एतेन 'ग्राहकैकस्वरूपस्य नानाग्राह्याकारकृतवास्तवैकत्वाविघातोऽविवेचनम्' इत्यपि निरस्तम्, वस्तु एकस्य बाह्यस्य नानाधर्मकृतैकत्वाविद्याततौल्यात्, शब्दपरावृत्तिमात्रत्वात् । एतेन विविच्यमानस्यावास्तवानेकत्वपरिग्रeasy व्याख्यातः । बाह्यस्य विवेच्यमानस्यानुपपद्यमानत्वाज्ज्ञानस्यैव चित्ररूपतेति चेत् । न, बाह्यस्यात्यन्तानुपलभ्यस्य स्वभा
१ ख. ग. घ. च. 'भ्यस्व' ।
onal
For Private & Personal Use Only
सटीकः । स्तबकः ।
॥ ५॥
॥१८२॥
www.jainelibrary.org