________________
ग्राहकस्वभावं तु, ग्राह्याभावादसंगतम्- अयुक्तमेतत् । न हि ग्राहकस्वभावाज्ज्ञानाद् ग्राह्यं किञ्चिदन्यदस्ति, यदपेक्षया नियतस्वभावतां विभृयादिदमिति भावः ॥ १७ ॥ विरोधान्नोभयाकारमन्यथा तदसद्भवेत् । निःस्वभावत्वतस्तस्य सत्तैवं युज्यते कथम् ॥१८॥
विरोधात्- एकस्य ग्राह्य ग्राहकाकारोभयविमिश्रणेन द्वित्वविरोधात् , नोभयाकारं- न ग्राह्य ग्राहकोभयस्वभावम् । अन्यथा- अनुभयस्वभावत्वपक्षे, तत्-ज्ञानम् , स्वभावविशेषनिषेधेन निःस्वभावत्वतः- स्वभावसामान्याभावात् , असद् भवेत् ।। एवं तस्य शशविषाणस्येव सत्ता कथं युज्यते । अत्र केचित् ताथागताश्चित्रप्रतिभासामेका बुद्धिं स्वीकुर्वन्तस्तृतीयपक्षे विरोधमाहुः, तदुक्तम्
“नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् । अशक्यदर्शनस्तं हि पतत्यर्थे विवेचयन् ॥१॥" अत्र देवेन्द्रव्याख्या- "चित्रज्ञाने हि यो नीलादिः प्रत्यवभासते, ज्ञानोपाधि नविशेषणोऽनुभवस्वात्मभूत इति यावत्, स एवैकोऽनन्यभाक्- तज्ज्ञानस्वभावत्वादन्यमर्थ ज्ञानवदेव न भजते । तादृशश्च सन्नसौ तच्चित्रदर्शनप्रतिभासी तदन्यपीतादिप्रतिभासविवेकेन न केवलः शक्यते द्रष्टुम् , तस्मिन् प्रतिभासमाने सर्वेषामेव तज्ज्ञानतया तदन्येषामपि नियोगतः प्रतिभासनात् । तस्माद् यदैवमेकं नीलादिकमाकारं तदन्येभ्यः पीतादिभ्यः 'अयं नीलः' इति ज्ञानान्तरेण विवेचयति प्रमाता, तदैव तथा विवेचयनसौ न तज्ज्ञानमामृशति, अतद्रूपत्वात्तस्य, किं तर्हि ?, अर्थे पतति-अर्थ एव तज्ज्ञानं प्रवृत्तं भवतीत्यर्थः। तस्मा
Jain Educat
i
ona
For Private & Personel Use Only
www.jainelibrary.org