________________
शास्त्रवार्तासमुच्चयः। ॥१८॥
नीलादिभ्रान्तिबीजानुगमनात्तु न यथाबोधमवसीयत इत्यस्यापि वक्तुं शक्यत्वात् । तत्राद्वयत्वमनुमास्यत इति तु न पेशलम् ,
। पशलम्स टीकः। स्व-परदृष्टयोरिव साक्षातक्रियमाणा-नुमीयमानयोर्भेदेन तत्राद्वयत्वानुमानस्य वक्तुमशक्यत्वात् ; अन्यथा नीलादौ बाह्यत्वानु- स्तबकः । मानत्यापि सुवचत्वादिति न किश्चिदेतत् ॥ १५॥
यथार्थे युक्त्ययोग उक्तस्तस्य ज्ञानेऽपि तुल्यतामुपदर्शयन्नाहयुक्त्ययोगश्च योऽर्थस्य गीयते जातिवादतः। ग्राह्यादिभावद्वारेण ज्ञानवादेऽप्यसौसमः॥१६॥ __युक्त्ययोगश्चार्थस्य यः परैर्महता प्रबन्धन, जातिवादतः-- अनुभवविरुद्धवादेन, गीयते- स्वेच्छामात्रेण प्रकल्प्यते, असौ- युक्त्ययोगः, ग्राह्यादिभावद्वारेण- वक्ष्यमाणलक्षणेन ग्राह्यादिभावविकल्पेन, ज्ञानवादेऽपि समः, तत्पक्षनिराकरणव्यापाराविशेषात् ॥ १६ ॥
- अत्र ज्ञानं हि ग्राह्यमात्रखभावम् , ग्राहकमात्रस्वभावम् , उभयस्वभावम् , अनुभयस्वभावं वा स्यात् १, इति विकल्प्याहनैकान्तग्राह्यभावं तद् ग्राहकाभावतो भुवि । ग्राहकैकान्तभावं तु ग्राह्याभावादसंगतम्॥१७॥
नैकान्तग्राह्यभावं तत्-न सर्वथा ग्राह्यस्वभावं ज्ञानम् । कुतः ? इत्याह- भुवि- पृथिव्याम् , ग्राहकाभावतः- ग्राहक खभावस्य कस्याप्यभावात् । संबन्धिशब्दश्चायं न संबन्ध्यन्तरेण विना प्रवर्तत इति । अत एव, ग्राहकैकान्तभावं तु-सर्वथा
||१८१ ॥ १ विज्ञानं यत्स्वसंवेद्य इति दशम्या कारिकया ।
Jain Education Inter
For Private & Personel Use Only
elaw.jainelibrary.org