________________
ज्ञानमात्रे तु विज्ञानं ज्ञानमेवेत्यदो भवेत्। प्रवृत्त्यादि ततो न स्यात्प्रसिद्ध लोक-शास्त्रयोः १४
ज्ञानमात्रे तु जगत्यभ्युपगम्यमाने, 'विज्ञानं ज्ञानमेव घटादि' इत्यदो भवेत्- इत्येतत् स्यात् , परिच्छेद्यान्तराभावात् ।। ततो लोक-शास्त्रयोः प्रसिद्धं प्रवृत्त्यादि-घटार्थि-स्वर्गार्थियत्नादि, न स्यात्- उक्तरीत्या नोपपद्यत ॥ १४ ॥
अस्तु तर्हि घटादिग्रहणमित्यत आहतदन्यग्रहणे चास्य प्रद्वेषोऽर्थेऽनिबन्धनः। ज्ञानान्तरेऽपि सदृशं तदसंवेदनादि यत् ॥१५॥
__ तदन्यग्रहणे च- ज्ञानान्यघटादिग्रहणे चाभ्युपगम्यमाने, अस्य- ज्ञानस्य, अर्थे प्रद्वेषः- अनभ्युपगमलक्षणः, अनि| बन्धनः- निनिमित्तः, यद्- यस्मात् , ज्ञानान्तरेऽपि- सन्तानान्तरवृत्तिज्ञानेऽपि, तदसंवेदनादि- विज्ञानान्तरासंवेदनादपि तत्सत्तादि, तुल्यम्- अर्थेऽपि तुल्यसमर्थनम् , अनुपलभ्यमानस्यासत्त्वे संतानान्तरचित्तस्यापि तथात्वप्रसङ्गात् । यदुपलभ्यमानं यथा नोपलभ्यते तत् तथा नास्ति, उपलभ्यमानं च नीलादि बाह्यत्वेन नोपलभ्यत इति तथा नास्तीति चेत् । न, एवं हि नीलाद्याकाराणामयत्वेनाननुभूयमानानां तथात्वेनाभावप्रसङ्गात । गृहीतेऽपि तस्मिन् निरंशत्वाद्वयबोधरूपे भ्रान्तिबीजानुगमनाद् न यथाबोधमध्यवसायो जायत इति गृहीतमपि तदगृहीतकल्पम् , इत्यननुभूतिरद्वयस्य तत्त्वत इति चेत् । न, एवं द्वयानुभवमनुभूयमानमपलप्याननुभूयमानाद्वयानुभवसमर्थनेऽतिप्रसङ्गात् ; नीलाद्याकारबोधादप्यन्यरूप एव बोधोऽनुभूयते, . . १ ज, 'लभमा'। २ ज. 'यायानु'।
Tee
हारपबहन
Jain Educatan Inter
For Private Personal Use Only
SEAjainelibrary.org