________________
PARI
शासवार्तासमुच्चयः। ॥१८॥
सटीकः। स्तबकः।
।
वृत्तितः- तत्र घटादावेव प्रवृत्तेः, बहिरर्थाभावे तु बहिष्पत्तिर्न स्यात् । तथा, प्राप्तः-घटज्ञानात् प्रवृत्तस्य घटोपलम्भात् । एतेन 'घटाकारज्ञानस्य स्वभावतो घटप्रवृत्तिहेतुत्वात् शुक्तौ रजतज्ञानादिव बहिष्पवृत्तिः' इति निरस्तम् , प्रवृत्तिसंवादा-संवादनिर्वाहार्थ प्राप्या-आप्यघटविषयकज्ञानभेदस्वीकारस्यावश्यकत्वात् । अथ प्राप्तिरपि प्रवृत्तस्य सतो घटोपलम्भ एव, तथाच घटमाप्तौ सत्यघटाकारज्ञानस्य हेतुत्वाद्न दोष इति चेत् । न, सत्यघटज्ञानोत्तरं घटभङ्गेऽपि तत्माप्तेः प्रसङ्गात् , मम त्वर्थासंनिधानाधीनत्वात् तदप्राप्तः। न च तैवापि घटाभावज्ञानात् तदप्राप्तिः, तदज्ञानेऽपि तत्र माप्रयोगात् । न च घटाकारज्ञानमात्रात् तत्माप्तिः, भूतले घटज्ञानात् पर्वते तत्माप्तिप्रसङ्गात् । न च विशिष्टज्ञानं तैवास्ति । न चागृहीतासंसर्गकज्ञानद्वयं पापकम् , भ्रमादपि प्राप्तिप्रसङ्गात् , सत्यत्वस्य | चार्थाभावेऽव्यवस्थानात् । तथा, अर्थक्रियायोगात्- जलानयनादिसिद्धः। यदि च ज्ञानाकार एव घटो जलानयनसमर्थः स्यात् तदा घटो बुद्ध्वैव जनो जलमानयेत् , इति हता देवानांप्रियेण कुम्भकारादीनामाजीविका ! 'घटप्रवृत्त्याख्यज्ञानं घटानयनाख्यज्ञानजनकम्' इति पुनरर्थे विज्ञप्तिरिति नामान्तरकरणं प्रतारकस्यायुष्मतः । तथा, स्मृतेः- गृहीतस्य घटादेः 'स घदः' इति स्मरणात् , उपलक्षणमेतत् 'सोऽयं घटः' इति प्रत्यभिज्ञायाः, निरूपिततत्त्वमेतत् , कौतुकभावतो बुभुत्सादिरूपकौतुकयोगात् । न चासत्यर्थे तुरङ्गशृङ्गादाविव बुभुत्सादिकमिति ॥ १३ ॥
उक्तमेव विपक्षे दोषं सूत्रयति, जैनस्य । २ योगाचारस्य ।
॥१८॥
Jain Education Interational
For Private & Personel Use Only
www.jainelibrary.org